गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 194, कुल 286 में से
संदर्भ में पढ़ें१७४ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः गुदश्वयथुकण्ठार्त्तिनाशनो बलवर्धनः ॥ १०४ ॥ अरोचके लघुचुक्रसन्धानम् । गुडक्षौद्रारनालाનાં समस्तूनां यथोत्तरम् । शंसन्ति द्विगुणान्भागान्सम्यक्चुक्रस्य सिद्धये ॥ १०५ ॥ यन्मस्त्वारि शुचौ भाण्डे सक्षौद्रगुडकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ १०६ ॥ मन्दाग्नौ बृहच्चुक्रसन्धानम् । प्रस्थं तण्डुलतोयतस्तुषजलात्प्रस्थत्रयं चाम्लतः प्रस्थार्धं दधितोऽथ मूलकपलान्यष्टौ गुडान्मानिका । मान्यौ शोधितशृङ्गवेरशकलाद् द्वे सिन्धुजातात्पले द्वे कृष्णोषणयोर्निशापलयुगं निःक्षिप्य भाण्डे दृढे ॥१०७॥ स्निग्धे धान्ययवादिराशिनिहितं त्रीन्वासराSubन्वासयेत् ग्रीष्मे तोयधरात्यये च चतुरो वर्षासु पुष्पाममे । षट् शीतेऽष्टदिनान्यतः परमिदं विस्राव्य संचूर्णितै- श्चातुर्जातपलैः सुसंहितमिदं शुक्तं च चुक्रं ततः ॥१०८॥ हन्याद्वातकफामदोषजनितान्नानाविधानामयान् । दुर्नामानिलशूलगुल्मजठरान्हृत्वाऽनलं दीपयेत् ॥ १०९ ॥ लवङ्गासवः । लवङ्गपिप्पलीलोहमरिचं सैलवालुकम् । द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् ॥ ११० ॥ द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् । गुडस्य द्विशतं तिष्ठेत्तत्सर्वं घृतभाजने ॥ १११ ॥ पक्षादूर्ध्वं जातरसे दद्यान्मात्रां यथाबलम् । अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् ॥ ११२ ॥ ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः । कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः ॥ ११३ ॥ सद्यः क्षयहरोऽरिष्टः कामलाश्रित्रनाशनः ।