गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 195, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १७५ कृमिग्रन्थ्यर्बुदव्यङ्गराजयक्ष्मज्वरान्तकृत् ॥ ११४ ॥ प्लीहे रोहीतकासवः । रोहीतकशतमेकं कथितं द्रोणे चतुर्थशेषे तु । तस्मिन्गुडशतमेकं योज्यं शेषैः सुचूर्णितैरेभिः ॥ ११५ ॥ पलमेकं त्रिफलाया देयं त्रिपलं च धातकीपुष्पात् । पलिकं च पञ्चकोलाद्धृतभाण्डे स्थापयेत्पक्षम् ॥ ११६ ॥ ज्वरगुल्मार्शःप्लीहरुग्विग्रहपाण्डुरोगघ्नः । अर्शस्सु गण्डिकाद्रोणः । दद्यात्सलिलद्रोणं कृतमन्येक्षुगण्डिकाद्रोणम् ॥ ११७ ॥ धान्ययवानीदीप्यकपृथ्वौकाश्वेति कुडवांशाः । द्विपलीनाः स्युर्देयास्तेजवतीचव्यचित्रकाजाज्यः ॥ ११८॥ मधुनः कुडवं दत्त्वा घृतरूढे भाजने स्थाप्यः । एष काञ्जिकराजो लवणयुतः कट्कतृणार्द्रकसुगन्धः॥११९॥ दशरात्रात्पातव्यः सलिलं च पुनः पुनर्देयम् । अर्शोभगन्दरगदग्रहणीमेदःप्रमेहदोषांश्च ॥ १२० ॥ नाशयति सेव्यमानो वह्निकरो गण्डिकाद्रोणः । कुष्ठे खदिरासवः । खदिरस्य तुलार्धं तु तत्तुल्यं देवदार्वपि ॥ १२१ ॥ वराया विंशतिर्दान्व्यर्याः पलानां पञ्चविंशतिः । बाकुच्या द्वादशपलांन्यष्टद्रोणेऽम्भसः पचेत् ॥ १२२ ॥ द्रोणशेषे कषाये तु पूते शीते विनिक्षिपेत् । धातक्या विंशतिपलं माक्षिकस्य शतद्वयम् ॥ १२३ ॥ शर्करायास्तुलामेकां चूर्णानीमानि दापयेत् । कङ्कोलकं लवङ्गं च एला जातीफलं त्वचम् ॥ १२४ ॥ केसरं मरिचं पत्रं पलिकान्युपकल्पयेत् । पिप्पलीनां तु कुडवं स्थापयेद्धृतभाजने ॥ १२५ ॥ १ 'वचायाः' इति पाठान्तरम् ।