गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 200, कुल 286 में से
संदर्भ में पढ़ें१८० आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः ग्रहण्यां बीजकासवः । बीजकात्षोडशपलं त्रिफलायाश्च विंशतिः ॥ १७२ ॥ द्राक्षायाः पञ्च लाक्षायाः सप्त द्रोणे तथाऽम्भसि । साध्यं पादावशेषे च पूतशीते प्रदापयेत् ॥ १७३ ॥ शर्करायास्तुलां प्रस्थं क्षौद्रं दद्याच्च कार्षिकम् । व्योषव्याघ्रनखोशीरं क्रमुकं सैलवालुकम् ॥ १७४ ॥ मधुकं कुष्ठमित्येतच्चूर्णितं घृतभाजने । यवेषु दशरात्रस्थं ग्रीष्मे, द्विः शिशिरे स्थितम् ॥ १७५ ॥ पिबेत्तद्ग्रहणीपाण्डुरोगार्शःशोफगुल्मनुत् । मूत्रकृच्छ्राश्मरीकुष्ठकामलासन्निपातनुत् ॥ १७६ ॥ अर्शसि पील्वासवः । द्रोणं पीलुरसस्य वस्त्रगलितं न्यस्तं हविर्भाजने युञ्जीत द्विपलैर्मदामधुफलाखर्जूरधात्रीफलैः । पाठामाद्रिदुरालभाम्लविदुलव्योषत्वगेलोल्लकैः स्पृक्काकोललवङ्गवेल्लचपलामूलाथिकैः पालिकैः॥१७७॥ गुडशतविनियोजितं निवाते निहितमिदं प्रपिबेच्च पक्षमात्रात् । निशमयति गुदाङ्कुरान्सगुल्मा- ननलबलं प्रबलं संविधत्ते ॥ १७८ ॥ रक्तपित्ते उशीरासवः । उशीरं पद्मकं रोध्रं प्रियङ्गुं नीलमुत्पलम् । प्रपौण्डरीकं काश्मीरं ह्रीबेरं धन्वयासकम् ॥ १७९ ॥ सेव्यं किराततिक्तं च पटोलं काञ्चनारकम् । पद्मं शाल्मलिनिर्यासं न्यग्रोधोदुम्बरं शठीम् ॥ १८० ॥ मञ्जिष्ठां पर्पटं जम्बू भागानैतान्पलोन्मितान् । सूक्ष्मचूर्णीकृतान् दद्याद्राक्षायाः पलविंशतिम् ॥ १८१ ॥ धातक्याः षोडशपलं तोयद्रोणे विनिक्षिपेत् ।