गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 201, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १८१ शर्करायास्तुलां दत्त्वा माक्षिकस्य तुलां तथा ॥ १८२ ॥ उशीरासव इत्येष रक्तपित्तविनाशनः । पाण्डुकुष्ठप्रमेहार्शःकृमिशोफहरस्तथा ॥ १८३ ॥ श्वासकासयोस्त्रायमाणासवः । त्रायन्ती कट्फलं दन्ती पौष्करं कण्टकारिका । दुरालभाऽञ्जनं सिंही पिप्पलीमूलमेव च ॥ १८४ ॥ धात्री कृमिहरं भार्ङ्गी माचिका चैल्वालुकम् । पथ्या शठी विशाला च भागानष्टपलोन्मितान् ॥ १८५ ॥ चतुर्द्रोणेऽम्भसः पक्त्वा शृतं द्रोणावशेषितम् । धातक्या विंशतिपलं माक्षिकस्य शतत्रयम् ॥ १८६ ॥ श्यामापलानि चत्वारि एलात्वक्पत्रकेसरम् । भागान्द्विपलिकानैषां चूर्णं कृत्वा विनिक्षिपेत् ॥ १८७ ॥ त्रायमाणासवो ह्येष कासश्वासामयग्रणुत् । पाण्डुहृद्रोगगुल्मार्शःसन्निपातज्वरापहः ॥ १८८ ॥ गुल्मे चविकासवः । तुलार्धं चविकायास्तु तदर्धं चित्रकस्य च । बाष्पिका पौष्करं मूलं पञ्चन्था हपुषा शठी ॥ १८९ ॥ पटोलमूलत्रिफलायवानीकुटजत्वचः । विशाला धान्यकं रास्ना दन्ती दशपलोन्मिता ॥ १९० ॥ कृमिघ्नमस्तमञ्जिष्ठादेवेदारुकटुत्रिकात् । भागान्पञ्चपलानेतानष्टद्रोणेऽम्भसः पचेत् ॥ १९१ ॥ द्रोणशेषे सुशीते च देयं गुडशतत्रयम् । धातक्या विंशतिपलं चातुर्जातपलाष्टकम् ॥ १९२ ॥ लवङ्गव्योषकङ्कोलं पलिकानि प्रकल्पयेत् । निदध्यान्मासमेकं तु घृतभाण्डे सुसंस्कृते ॥ १९३ ॥ चतुष्पलां पिबेन्मात्रां प्रातः पीतो नियच्छति । सर्वान्गुल्मविकारांश्च प्रमेहांश्चैव विंशतिः ॥ १९४ ॥ १६