गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 202, कुल 286 में से
संदर्भ में पढ़ें१८२ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः प्रतिश्यायं क्षयं कासमष्ठीलां वातशोणितम् । उदराणन्त्रवृद्धिं च चविकाख्यो महासवः ॥ १९५ ॥ ग्रहण्यां मूलासवः । द्विपञ्चमूलरजनीजीवकर्षभजीरकम् । पृथक्पञ्चपलैर्भागैश्चतुर्द्रोणेऽम्भसः पचेत् ॥ १९६ ॥ द्रोणशेषे रसे पूते गुडस्य द्विशतं तथा । चूर्णितान्कुडवार्धांशांन्दत्त्वा चात्र समाक्षिकान् ॥ १९७ ॥ प्रियङ्गुमुस्तमञ्जिष्ठाविडङ्गमधुकप्लवान् । रोध्रं सावरकं चैव मासार्धं स्थापयेद्घटम् ॥ १९८ ॥ एष मूलासवः सिद्धो दीपनो रक्तपित्तहा । आमहृत्कफहृद्रोगपाण्डुरोगाङ्गसादनुत् ॥ १९९ ॥ क्षयरोगे बृहन्मूलासवः । महावृक्षवटार्काणां विनामूलैः परैः शुभैः । अष्टोत्तरशतैरम्भस्त्रिंशद्घटमितं पचेत् ॥ २०० ॥ तुलात्रयप्रमाणं च दशमूल्यास्तथैव च । अष्टावशेषमुत्तार्य गुडस्यानु दिनद्वयम् ॥ २०१ ॥ पलानां विंशतिशतं क्षिपेच्च दृढे घटे । आतपे तं विनिक्षिप्य धारयेत्रिदिनं ततः ॥ २०२ ॥ उद्धृत्य धूपिते पात्रे वस्त्रपूतं क्षिपेद्भिषक् । धातकीं विंशतिपलां हरीतक्याः पलाष्टकम् ॥ २०३ ॥ पूगानां विंशतिपलं पिप्पल्याः पलपञ्चकम् । एलालवङ्गकङ्कोलजातीत्वक्पत्रकेसरम् ॥ २०४ ॥ पलं पलं समरिचं चूर्णीकृत्य भिषग्वरः । आसवे निक्षिपेत्तत्र मधुनः कुडवद्वयम् ॥ २०५ ॥ संजातेऽष्टदिने तस्मादुद्धृत्यान्यत्र तं न्यसेत् । आसवे सकषाये तु गुडमन्यं प्रदापयेत् ॥ २०६ ॥ १. मूलरहितैरन्यैस्त्वक्पत्राद्यवयवैरित्यर्थः ।