गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 264, कुल 286 में से
संदर्भ में पढ़ें२४४ आयुर्वेदौयग्रन्थमाला । [परिशिष्टे चन्दनं च तुगाक्षीरीं धान्यकं सारिवां तथा । कङ्कोलकमुशीरं च कुङ्कुमं शतपत्रिकाम् ॥ ५३ ॥ सत्त्वं गुडूच्याश्च तथा कर्षमानं पृथक् पृथक् । एषोऽवलेहो हृद्रोगं भ्रमं मूर्च्छा वमिं तथा ॥ ५४ ॥ दाहं च सुमहाघोरं शमयेन्नात्र संशयः । धातुक्षयेऽश्वगन्धाद्यवलेहः । अश्वगन्धा गोक्षुरश्च शतवीर्या विदारिका ॥ ५५ ॥ बलाबीजानि यष्ट्याह्वं बीजानिक्षुरकस्य च । कपिकच्छोश्च बीजानि शाल्मलीमूलकं तथा ॥ ५६ ॥ वृद्धदारुकबीजानि लवङ्गं जातिपत्रिका । जातीफलं केशरं च त्वक् पत्रं वंशरोचना ॥ ५७ ॥ एलाद्वयं कुङ्कुमं च गुडूचीसत्त्वमेव च । एतेषां कर्षमादाय मधुनः कुडवत्रयम् ॥ ५८ ॥ कृत्वा लेहं ततो मात्रां यथायोग्यां प्रदापयेत् । धातुक्षयं तथा वातं ध्वजभङ्गं नियच्छति । अनेनाशीतिवर्षोऽपि युवेव च वृषायते ॥ ५९ ॥ इति श्रीवैद्यसोढलग्रथिते गदनिग्रहे परिशिष्टे पञ्चमोऽवलेहाधिकारः । समाप्तं चेदं प्रयोगखण्डपरिशिष्टम् ।