भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 266, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 266

प्रसिद्धः । चतुर्भिर्माषकैरेकः शाणः । द्वाभ्यां शाणाभ्यामेकः कोलः, द्वाभ्यां कोलाभ्यां चैकः कर्षः । स च संप्रति भारतवर्षे प्रचलितरूप्यकाख्यव्यावहारिक- द्रव्यपरिमितः। अतो माषशाणकोला यथाक्रमं एकाणक-आणकचतुष्टय-अर्धरूप्यक- (रु० ४-, रु० ०।-, रु० ०।।,) परिमिता ज्ञेयाः । शरावस्य 'शेर' इति नाम्ना भाषायां व्यवहारः, द्रोणस्य च 'मण' इति नाम्ना । अन्यत्स्पष्टम् । शुष्काणां स्यादिदं मानं द्विगुणं तद्रवार्द्रयोः । न द्वैगुण्यं तुला- माने पलोल्लेखागते तथा ॥ शुष्कद्रव्येषु यन्मानमार्द्रस्य द्विगुणं हि तत् । शुष्कस्य गुरुतीक्ष्णत्वं तस्मादर्धे प्रयोजयेत् ॥ शुष्कं नवीनं यद्द्रव्यं योज्यं सकलकर्मसु । आर्द्रं च द्विगुणं दद्यादेष सर्वत्र निश्चयः ॥ यत्र प्रयोगे यद्द्रव्यं शुष्कमुपयुज्यते तस्य यावन्मानं लिखितं तावन्मितमेव तद्ग्राह्यं; तदेव यद्यार्द्रमुपयुज्यते तदोक्तमानापेक्षया द्विगुणं ग्राह्यं; यच्च द्रव्यं क्षीर- तोयादिकं द्रवमेवोपयुज्यते तदप्युक्तमानापेक्षया द्विगुणं ग्राह्यं; एतच्च द्रवार्द्रयोर्द्वैगुण्यं रक्तिकादौ कुडवादौ च सर्वत्रैव ज्ञेयं; परं यत्र तुलामानं यत्र वा पलशब्देन मानो- ल्लेखः यथा-'रोहितकत्वचः श्रेष्ठात्पलानां पञ्चविंशतिः' इत्यादौ तत्र तु द्रवार्द्रयोर्द्वैगुण्यं न कार्यम् । यत्तु “गुञ्जादिमानमारभ्य यावत्स्यात्कुडवस्थितिः । द्रवार्द्र- शुष्कद्रव्याणां तावन्मानं समं मतम् ॥ प्रस्थादिमानमारभ्य द्विगुणं तद्द्रवार्द्रयोः”—इति तन्न प्रमाणं, युक्तिविरोधाच्चरकसुश्रुतविरोधाच्च । येषां तु द्रव्याणामार्द्रतायामेव नियमतः प्रयोगो न शुष्कतायां, तेषामाद्रीणां द्वैगुण्यं न कार्यं; आर्द्रतायामेवैषामुपयोगस्तु तदवस्थायामेवैषामुत्कृष्टवीर्यत्वात् । तानि च यथा— “गुडूची कुटजो वासा कूष्माण्डं च शतावरी । अश्वगन्धा- सहचरौ शतपुष्पा प्रसारणी ॥ प्रयोक्तव्या सदैवार्द्रा द्विगुणं नैव कारयेत्—” इति । अन्यच्च—“वासानिम्बपटोलकेतकिबलाकुष्मा- ण्डकेन्दीवरीवर्षाभूकूटजाश्वगन्धसहितास्ताः पूतिगन्धामृताः । मांसं नागबला सहाचरपुरौ हिङ्ग्वार्द्रके नित्यशो ग्राह्यास्तत्क्षण- मेव न द्विगुणिता ये चेक्षुजाता घनाः”—इति । अथ भेषजादिग्रहणसंकेतः—लवणं सैन्धवं प्रोक्तं चन्दनं रक्तचन्द- नम् । चूर्णलेहासवस्नेहाः साध्या धवलचन्दनैः ॥ कषायलेपयोः प्राप्तो युज्यते रक्तचन्दनम् । पयःसर्पिःप्रयोगेषु गव्यमेव हि गृह्यते ॥ शकृद्रसो गोमयकं मूत्रं गोमूत्रमुच्यते । सिद्धार्थः सर्षपे ग्राह्य उत्पले नीलमुत्पलम् ॥ कालेऽनुक्ते प्रभातं स्यादङ्गेऽनुक्ते