भारतकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 267, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 267

जटा भवेत् । भागेऽनुक्ते च साम्यं स्यात् पात्रेऽनुक्ते च मृण्मयम् ॥ द्रवेऽनुक्ते जलं ग्राह्यं तैलेऽनुक्ते तिलोद्भवम् । एकमप्यौषधं योगे यस्मिन्त्यत्पुनरुच्यते ॥ मानतो द्विगुणं ग्राह्यं तद्द्रव्यं तत्त्वदर्शिभिः । व्याधेरयुक्तं यद्द्रव्यं गणोक्तमपि तत्यजेत् ॥ अनुक्तमपि युक्तं यद्यो- जयेत्तत्र तद्बुधः । कदाचिद्द्रव्यमेकं वा यदि योगे न लभ्यते ॥ तत्त- द्गुणयुतं द्रव्यं परिवर्तेन गृह्यते । द्रव्याभावे तु तत्तुल्यं द्रव्यमेव प्रदीयते ॥ न्यग्रोधादेस्त्वचो ग्राह्या सारः स्याद्वीजकादितः । तालीसादेश्च पत्राणि फलं स्यात्त्रिफलादितः ॥ धातक्यादेश्च पुष्पाणि स्नुह्यादेः क्षीरमाहरेत् । महान्ति यानि मूलानि काष्ठगर्भाणि यानि च ॥ तेषां तु वल्कलं ग्राह्यं सूक्ष्ममूलानि कृत्स्नतः । जाङ्गलानां वयःस्थानां चर्मरोमनखादिकम् ॥ क्षीरमूत्रपुरीषाणि जीर्णाहारे तु ग्राहयेत् । चतुष्पात्सु स्त्रियः श्रेष्ठाः पुमांसो विहगेषु च ॥ वल्मीक- कुत्सितानूपश्मशानोषरमार्गजाः । जन्तुवह्निहिमव्याप्ता नौषध्यः कार्यसाधिकाः ॥ शरद्यखिलकार्यार्थं ग्राह्यं सरसमौषधम् । विरे- कवमनार्थं च वसन्तान्ते समाहरेत् ॥ अथ स्नेहपाकपरिभाषा—अत्राह सुश्रुतः,—“स्नेहाच्चतुर्गुणो द्रवः, स्नेह- चतुर्थांशो भेषजकल्कः, तदेकध्यं संसृज्य विपचेदित्येष स्नेहपाक- कल्पः । भवति चात्र—स्नेहभेषजतोयानां प्रमाणं यत्र नेरितम् । तत्रायं विधिरास्थेयो निर्दिष्टे तत्तदेव तु” इति । स्नेहाच्चतुर्गुणो द्रव इति वचनं एकद्वित्रिद्रवेषु चतुर्गुणत्वन्यूने स्नेहसाधननिषेधार्थं, नतु पञ्चप्रभृतिद्रवेषु चतुर्गुणाधिक्ये प्रतिषेधार्थं, तेन यत्रैकेन द्रवेण पाकस्तत्रैकेनैव चातुर्गुण्यं, यत्र द्वाभ्यां द्वाभ्यां स्नेहपाकस्तत्र स्नेहद्विगुणाभ्यां ताभ्यां चातुर्गुण्यं, यत्र त्रिभिर्द्रवैः स्नेहपाकस्तत्र त्रिभिः मिलितैश्चातुर्गुण्यं, यत्र तु चतुर्भिर्द्रवैः स्नेहपाकस्तत्र स्नेह- समैश्चतुर्भिंश्चातुर्गुण्यमिति । यत्र तु पञ्चप्रभृतीनि द्रवाणि तत्र तु सर्वाणि स्नेह- समान्येव ग्राह्याणि । तत्र क्षीरे विशेषः-, यत्र द्रवान्तरं नोक्तं तत्र क्षीरं चतुर्गुणम् । द्रवान्तरप्रयोगे तु क्षीरं स्नेहसमं मतम्-इति । अस्या- यमर्थः—यत्र केवलेन क्षीरेणैव पाकस्तत्र क्षीरमेव चतुर्गुणं दत्त्वा स्नेहः साध- नीयः । यत्र तु एकद्रवान्तरयुतेन क्षीरेण पाकस्तत्र क्षीरं स्नेहसमं द्रवान्तरं च स्नेहत्रिगुणमिति मिलित्वा स्नेहचतुर्गुणेन द्रवेण पाकः, यत्र च द्रवान्तरद्वययुतेन क्षीरेण पाकस्तत्र क्षीरं स्नेहसमं द्रवान्तरद्वयं च स्नेहसार्धमिति मिलित्वा स्नेहचतु- र्गुणेन द्रवेण पाकः, यत्र द्रवान्तरत्रययुतेन क्षीरेण पाकस्तत्र क्षीरं द्रवान्तरत्रयं च स्नेहसममिति प्रत्येकं मिलितैश्चतुर्गुणैः स्नेहपाकः । तदूर्ध्वं चतुःप्रभृतिद्रवान्तरयोगे