गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 268, कुल 286 में से
संदर्भ में पढ़ें४ क्षीरं द्रवान्तरं च प्रत्येकं स्नेहसमं दत्त्वा पाको निष्पादनीयः। अथ कल्कमानावपादः- “वृषादिकुसुमैः कल्कैर्यत्रोक्तं स्नेहसाधनम्। कल्काढ्यत्वात्तु पादार्धं तत्र कल्कं प्रदापयेत्” इति । यत्र स्नेहे कल्को नोक्तस्तत्र केवलेन द्रवेणैव चतुर्गुणेन स्नेहसाधनम् । यदुक्तं—“अकल्कः खलु यः स्नेहः स साध्यः केवले द्रवे” इति । यत्र योगे द्रव्यगण एव निर्दिष्टः क्वाथो वा कल्को वा न निर्दिष्टस्तस्मिन्ननिर्देशे तस्माद्द्रव्यगणात्कल्कक्वाथावुभावपि प्रयोजयेत् । यदुक्तं सुश्रुते—“कल्कक्वाथावनिर्देशे गणात्तस्मात्प्रयोजयेत्”—इति । अत्र च गणशब्दो गणसंज्ञया यो गणः पञ्चमूलादिरुक्तस्तन्मात्रे न विवक्षितः, किंतु त्रिप्रभृतिद्रव्यसमूहे विवक्षितः, गणात्तस्मादित्युक्तेः । एतेन यत्रैकेन द्रव्येण द्रव्य- द्वयेन वा पाकस्तत्र कल्केनैव, यत्र तु त्रिप्रभृतिभिर्द्रव्यैः पाकस्तत्र क्वाथकल्काभ्या- मुभाभ्यामिति ज्ञेयम् । स्नेहसाधने क्वाथकल्पनोक्ता सुश्रुतेन—“तत्र यथायोगं त्वक्पत्रफलमूलादीनामातपपरिशोषितानां छेद्यानि खण्डशश्छेद- यित्वा भेद्यान्यणुशो भेदयित्वाऽवकुट्याष्टगुणेन षोडशगुणेन वाऽम्भसाऽभिषिच्य स्थाल्यां चतुर्थांशावशिष्टं क्वाथयित्वाऽपहरे- दित्येष कषायपाककल्पः” इति । अत्राष्टगुणतोयं मृद्वादिसंघाताभिप्रायेण द्रवद्वैगुण्येनैवोक्तम् । यदुक्तमन्यत्र—“मृदौ चतुर्गुणं देयं कठिनेऽष्टगुणं जलम् । कठिनात्कठिनं यच्च तत्र षोडशिकं जलम् ॥ मृद्वादौ द्रव्य- संघाते मानानुक्तौ चिकित्सकाः । मध्यस्थोभयभागित्वादिच्छन्त्य- ष्टगुणं जलमिति । तथा—क्वाथ्यादष्टगुणं वारि, पादस्थं स्याच्चतुर्गु- णम् । स्नेहात्, स्नेहसमं क्षीरं, कल्कस्तु स्नेहपादिकः । चतुर्गुणं त्वष्टगुणं द्रवद्वैगुण्यतो भवेत्” इति । यत्र क्वाथ्यद्रव्यमानमल्पमष्टगुणे तोये क्वाथकरणे स्नेहचतुर्गुणः क्वाथो न भवति तत्रोक्तमानेन क्वाथ्यद्रव्यं गृहीत्वा षोडशगुणे तोये क्वाथयित्वा पादशेषं स्नेहचतुर्गुणं कुर्यादित्यभिप्रायेणोक्तं षोडश- गुणेन वाऽम्भसाऽभिषिच्येति । “अथवा तत्रोक्तद्रोणे त्वक्पत्रमूलादीनां तुलामावाप्य चतुर्थांशावशिष्टमपहरेदित्येष कषायपाककल्पः । तुलाद्रव्ये जलद्रोणो द्रोणे द्रव्यतुलाऽम्भसि । ततः पलशते द्रव्ये जलद्रोणोऽपि चेष्यते ॥” यत्र तुलाद्रव्यं जले पचेदित्युक्तं परं जलप्रमाणं नोक्तं, तत्र द्रोणमितं जलं ग्राह्यं; यत्र तु द्रोणमिते जले द्रव्यं पचेदित्युक्तं परं द्रव्यप्रमाणं नोक्तं, तत्र द्रव्यं तुलाप्रमाणं ग्राह्यमिति भावः । ‘अनिर्दिष्ट- प्रमाणानां स्नेहानां प्रस्थ इष्यते’ इति । स्नेहपाककालनियमः—स्नेहान् विपाच्यैव विरामयेत्तु क्षीरे द्विरात्रं स्वरसे त्रिरात्रम् । कल्के कषायेषु च पञ्चरात्रं दध्य़ारनाले पुनरे- करात्रम् ॥ अस्यायमर्थः—क्षीरादिद्रवाणि कल्कं चैकत्र्यं संसृज्य विपचेत् । तत्र,