गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 271, कुल 286 में से
संदर्भ में पढ़ें७ क्वाथं पूतं पुनः पुनः । काथयेत्फाणिताकारमेषा प्रोक्ता रसक्रिया" इति । द्वितीयस्तु क्वाथ्यद्रव्याणि यथोक्तमानेन क्वाथयित्वा तं क्वाथं वस्त्रपूतं कृत्वा, तत्र शर्करादिकं प्रक्षिप्य पुनः पक्त्वा पाके सिद्धे चूर्णं प्रक्षिप्य निष्पाद्यते । तृतीयः केवलं शर्करादिकं जले पक्त्वा सिद्धे पाके चूर्णादिकं प्रक्षिप्य निष्पाद्यते । चतुर्थस्तु चूर्णे यथोक्तमानैः क्षौद्रघृतादिभिः संप्लाव्य निष्पाद्यते । अथ लेहादौ चूर्णप्रक्षेपविचारः—प्रायो न पाकश्चूर्णानां भूरिचूर्णस्य तेन हि । आसन्नपाके प्रक्षेपः स्वल्पस्य पाकमागते ॥ आसन्नपाक इति उपस्थि- तपाके नतु पाकमापन्ने, तथा सति प्रचुरचूर्णस्य प्रवेशो न स्यादित्यर्थः । स्वल्पस्य चूर्णस्य पाकान्ते कदुष्णदशायां प्रक्षेप इति । पाकलक्षणं तु—सुपक्के तन्तु- मत्त्वं स्यादवलेहेऽप्सु मज्जनम् । स्थिरत्वं पीडिते मुद्रा गन्धवर्ण- रसोद्भवः ॥ तथा—रसो गन्धः शुभः पाके वर्त्तिः स्याद्गाढमर्दनात् ॥ इति । स्थिरत्वमिति निश्चलत्वम् । एतेन द्रवरहित इत्यर्थः । मुद्राऽत्र निम्नता । अथ आसवारिष्टपरिभाषा—द्रवेषु चिरकालस्थं द्रव्यं यत्संहितं भवेत् । आसवारिष्टभेदैस्तत्प्रोच्यते भेषजोचितम् ॥ यदपक्वौषधा- म्बुभ्यां सिद्धं मद्यं स आसवः । अरिष्टः क्वाथसिद्धः स्यात्तन्मानं द्विपलोन्मितम् ॥ अनुक्तमानारिष्टेषु द्रवद्रोणे गुडतुलाम् । क्षौद्रं दद्याद्गुडादर्धं प्रक्षेपं दशमांशिकम् ॥ प्रक्षेपं पश्चाद्देयं द्रव्यं धातकीपुष्पा- दिकं, दशमांशिकं गुडपरिमाणादित्यर्थः । क्वाथ्यद्रव्याणि द्राक्षादीनि यथोक्तमानै- र्जले निष्क्वाथ्य वस्त्रपूतं विधाय गुडादिकं धातकीकुसुमादिकं च यथोक्तमानेन प्रक्षिप्य घृतभाविते दृढे मृण्मये कुम्भे यावदर्थं प्रपूर्य पक्षं मासं वा भूमौ स्थाप्य जातरसे उद्धृत्य वस्त्रगालितं कृत्वा उपयुञ्ज्यादित्यरिष्टविधिः । आसव- करणे तु जलादौ द्रवे एव गुडादीनि प्रक्षिप्य संधानं, न क्वाथकरणम् । शेषं अरिष्टवत् । अथ भेषजमात्राविचारः—न्यूनं चेन्मात्रया द्रव्यं न व्याधीन् विनि- वर्तयेत् । मात्रयाऽधिकया युक्तं जनयेच्चापदं परम् ॥ मात्राया नास्त्यवस्थानं दोषमग्निं बलं वयः। व्याधिं द्रव्यं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत् ॥ तथाऽल्पपशुबुद्धीनामवबोधाय तत्र तत्र यथास्थूलं मात्रा- निर्देशः कृत इति ज्ञेयम् । संप्रति मनुष्याणां अल्पदेहबलवत्त्वात् प्राचीनग्रन्थे- षूक्तमात्रापेक्षया पादप्रमाणा अर्धा वा मात्रा देया ।