गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 272, कुल 286 में से
संदर्भ में पढ़ेंॐ आयुर्वेदीयग्रन्थमाला। (दुष्प्रापप्राचीनायुर्वेदग्रन्थानां क्रमशः प्रकाशिका मासिकपत्रिका) एषा खलु खिस्तीय १९१० वत्सरस्य नोंवेम्बरमासात् प्रतिमासं प्रसि- ध्यति । अस्यां मासिकपत्रिकायामद्यावधि क्वाप्यमुद्रिता दुष्प्रापाश्च विविधा आयुर्वेदीयग्रन्था भूयसा यत्नेन संपाद्य, बहूनामादर्शपुस्तकानां साहाय्येन संशोध्य, पाठान्तरादिभिश्च संयोज्य प्रसिद्धिं नीयन्ते । येषां ग्रन्थानां टीको- पलभ्यते ते सटीका एव मुद्राप्यन्ते, अन्येषु च विषमपदोपरि टिप्पणं दीयते । प्रतिग्रन्थं ग्रन्थकर्तुर्जन्मदेशोत्पत्तिकालादिप्रदर्शिका भूमिका, विषयानुक्रम- णिका, शुद्धिपत्रं च दीयते । मासिकेयं भारतवर्षे मुद्रणकार्यार्थे सुविख्याति- मापन्ने निर्णयसागरयन्त्रालये सुपुष्टचिक्कणपत्रोपरि (50 Pounds glaze paper) मुद्राप्यते । अस्यां प्रतिमासमेतस्या विज्ञापनपत्रिकाया अन्ते प्रदत्तादर्शपृष्ठद्वयरूपाण्यष्टचत्वारिंशत्पृष्ठानि (royal 12 P. 4 Forms.) दीयन्ते । पत्रिकेयं प्राचीनविविधायुर्वेदग्रन्थदिदृक्षूणां वैद्यजनानां कियदुपयोगार्हा संमाह्या चेति अस्यां विज्ञापनपत्रिकायां तृतीयपृष्ठमारभ्य चतुर्दशपृष्ठपर्यन्तं [मुद्रितेभ्यो] भारतवर्षस्य नानास्थलनिवासिनां वैद्यमहोदयानां प्रशंसापत्रेभ्य एव [ज्ञातव्यं] विपश्चितः । अस्या मासिकपत्रिकाया नियमाः । १ अस्या वार्षिकमूल्यं भारतवर्षब्रह्मदेशसिंहलदेशनिवासिभिर्ग्राहकैः प्रापण- मृतिसहितं रूपकत्रयं, अन्यदेशनिवासिभिश्च पादोनरूपकचतुष्टयं वर्षारम्भ एव देयं भवेत्; छात्रैस्तु यदि स्वगुरोः 'अनेनास्मत्समीपेऽधीयते' इत्येवं रूपं प्रमाणपत्रं प्रेष्येत चेत्तर्हि रूप्यकद्वयमात्रमेव देयं भवेत् । २ आदर्शाङ्कः (नमूना-Sample copy.) कस्यैचिदपि विनामूल्यं न प्रेष्यते, नच वी. पी. द्वारा । अस्या विज्ञापनपत्रिकाया अन्ते संप्रति मुद्यमानेभ्यो