गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 275, कुल 286 में से
संदर्भ में पढ़ें४ सुश्रुतसंहितायाः सुश्रुतार्थसंदीपनभाष्याख्यव्याख्याप्रणेतॄणां राजशाहीवास्त- व्यानां कविराजश्रीहारणचन्द्रशर्मचक्रवर्तिनामभिप्रायः— श्रीश्रीशः शरणम् । वैद्य श्रीयादवजी त्रिविक्रमजी महोदयं प्रति यथाविहितसम्मानपुरःसरं विनि- वेदयति— तत्र भवद्भिः प्रेषितामायुर्वेदीयग्रन्थमालानाम्नीं पत्रिकामवाप्य नितरां परि- तुष्टोऽस्मि । भारतीयानां दौर्भाग्यवशाच्चिरन्तनैर्भिषग्भिरुपनिबद्धा बहवो ग्रन्था विलुप्तिमापुः । ये च केचन लुप्तप्राया राजपुरुषाणां प्रयत्नात् यथाकथमपि मुद्रिताः समुपलभ्यन्ते त एवेदानीं पाश्चात्यविज्ञानदृप्तेऽपि देशे भारतीयार्याणां वैद्यकविद्यायामतितरां नैपुण्यविशेषमाख्यापयन्ति । अधुनापि बहवो ग्रन्था अमुद्रिता आकरगता मणय इव न जातु जनानामुपकारायौयुर्वेदस्य गौरववर्धनाय वा प्रभवन्ति । धन्योऽसि त्वं यज्जनहितेच्छया रक्षार्थं चायुर्वेदतन्त्राणाममुद्रितांस्तां- स्तान् प्राचीनान् ग्रन्थान् बहुप्रयासेनोपसंगृह्य प्रतिमासमायुर्वेदीयग्रन्थमालायां प्रकाशयसीति । सांवत्सरिकमूल्यमप्यस्या नातिदुर्बहम् । नह्यपायान्तरेण रूप्य- कत्रयव्ययात् कथमपि रसहृदयादिकास्ते ते दुर्लभा ग्रन्थाः शक्यन्ते नाम दृष्टिपथमप्यारोहयितुम् । प्रतिग्रन्थं सुयुक्तिपूर्णा भूमिका दुरूहार्थबोधिका टिप्प- न्यपि वर्तेत इति सानन्दमभिनन्दयामि । पत्रिकेयं सर्वथायुर्वेदानुशीलयि- तॄणामुपयोगिनी भविष्यतीति परमाशासे इति । $\left.{l}राजशाही ६ डिसें० १९१० सः\right}$ श्रीहारणचन्द्रचक्रवर्ती । जयपुरराजकीयसंस्कृतमहाविद्यालये आयुर्वेदप्रधानाध्यापकानां, आयुर्वेदा- चार्योपाधिभृतां राजवैद्य पं० श्रीलक्ष्मीराम स्वामी महोदयानामभिप्रायः— अद्य प्रादुर्भूतमान्तरिकमानन्दं बहिः प्रकाशयन् सत्यं सन्तोषमावहामि । यतो हि बहोः कालादुपेक्षापथमारोपिते विषये साम्प्रतं समाजे लोकानां दृष्टि- पातः । नैतदवधि परमोपयोगिनः खल्वायुर्वेदशास्त्रस्य पुरातनग्रन्थानां प्रकाशने समभूत्समवधानम् । परमद्य नवीनमाविष्कृतामायुर्वेदीयग्रन्थमालां पश्यन् सन्तुष्यामि हृदये । एषा हि मोहमयीनगरात् प्रचरिष्यन्ती मासिकपत्रिका । एत्तस्याः खलु सम्पादका मोहमयीनगरमधिवसन्त आचार्योपाह्वा यादव- शर्मणः । एषा हि परमोपयोगिनः प्राचीनानायुर्वेदग्रन्थान् प्रकाशयितुमा- विर्भूता । एवंविधान् ग्रन्थान् प्रकाशयन्ती सैषा कियदुपकरिष्यति लोकानामिति सर्वेऽप्यनुमिन्युयुः । अस्यां हि प्रकाशयितुमभिलषितानां विरलपठनपाठनप्रचा-