गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 54, कुल 286 में से
संदर्भ में पढ़ेंगदनिग्रहः । ३३ लुश्वितानां तिलानां च दद्यात्तैलाढकद्वयम् । चतुर्गुणेन पयसा पाचयेन्मृदुनाऽग्निना ॥ ८ ॥ वातव्याधिषु सर्वेषु रक्तपित्ताश्रयाश्च ये । व्यापन्नासु च योनिषु शस्तं नष्टे च रेतसि ॥ ९ ॥ तालुशोषं तृषां दाहं पार्श्वशूलमसृग्दरम् । हन्ति शोषमपस्मारं विसर्पं सशिरोग्रहम् ॥ १० ॥ आयुर्वर्णकरं चैव बलातैलं प्रजाकरम् । वातव्याधौ बृहद्बलातैलम् । बृहद्वलायास्तु तुलां चतुर्द्रोणेऽम्भसः पचेत् ॥ ११ ॥ समुत्तार्य ततः सम्यग्दशभागस्थिते रसे । दधिमण्डेक्षुनिर्यासयुक्तैस्तैलाढकं समैः ॥ १२ ॥ पचेत्साजपयोर्धार्शैः कल्कैरेभिः पलोन्मितैः । शठीसरलदार्वेलामञ्जिष्ठागुरुचन्दनैः ॥ १३ ॥ पद्मकातिबलामुस्तासूर्यपर्णीहरेणुभिः । यष्ट्याह्वसुरसव्याघ्रनखर्षभकजीवकैः ॥ १४ ॥ पलाशरसकस्तूरीनलिकाजातिकोशकैः । स्पृक्काकुङ्कुमशैलेयमालतीकदफलाम्बुभिः ॥ १५ ॥ त्वचाकुन्दुरुकर्पूरतुरुष्कश्रीनिवासकैः । लवङ्गनखकङ्कोलकुष्ठमांसीप्रियङ्गुभिः ॥ १६ ॥ स्थौणेयतगरध्यामवचादमनचोरकैः । सनागकेशरैः सिद्धे दद्यात्पात्रावतारिते ॥ १७ ॥ तत्र कल्कं ततः पूतं विधिना च प्रयोजयेत् । कासं श्वासं ज्वरं छर्दिं शूलं हिक्कां क्षतक्षयम् ॥ १८ ॥ प्लीहं शोषमपस्मारमलक्ष्मीं च प्रणाशयेत् । बलातैलमिदं श्रेष्ठं वातव्याधिहरं परम् ॥ १९ ॥ वातव्याधौ तृतीयं बलातैलम् । बलाशतकषाये तु तैलस्यार्धाढकं पचेत् ।