गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
DevanagariHindipublished446 पृष्ठ
पृष्ठ 104, कुल 446 में से
संदर्भ में पढ़ेंपृष्ठ 104
तृतीयः पटलः । • २३ पञ्चकूटं न्यसेन्मन्त्री पञ्चाशन्मातृकां न्यसेत् ॥ ७१ ॥ दिव्यमालां समादाय साधको विजितेन्द्रियः । सहस्रैकप्रमाणे न जपेत् स्वप्नावतीं ततः ॥ ७२ ॥ अनेनैव विधानेन भवेदाकर्षणं महत् । तस्यास्तु मदनागारे पूजयेत् परमेश्वरीम् ॥ ७३ ॥
- सर्वसंक्षोभिणीं मुद्रां बद्ध्वा योनिं प्रचालयेत् । कामेश्वरीस्वरूपां तां चिन्तयेत् साधकोत्तमः ॥ ७४ ॥ कामेश्वरस्वरूपं च आत्मानमपि भावयन् । स्वयमक्षोभितो भूत्वा साधकः पञ्चमं चरन् ॥ ७५ ॥ तस्याः पुष्पं स्वयं यावद् १ रक्षणीयं प्रयत्नतः । ताम्बूलगन्धपुष्पैश्च प्रत्यहं पूजयेच्च ताम् ॥ ७६ ॥ नानारसान्नपानेन तृप्तिमाचर्य यत्नतः । वस्त्रालंकारभूषाद्यैस्तस्याः सन्तोषमानयेत् ॥ ७७ ॥ यथाकाले तथा पुष्पं स्वयं तद्गोप्यरूपतः । गृहीत्वा तु प्रयत्नेन स्वयंभूकुसुमं हि तत् ॥ ७८ ॥ स्वयंभूकुसुमं दिव्यं त्रैलोक्येष्वपि दुर्लभम् । प्राप्नोति साधकश्रेष्ठो दुर्लभं साधयेद्भुवि ॥ ७९ ॥ स्वयंभूपुष्पयोगेन साक्षतेन सदार्चयेत् । विद्यां स्वप्नावतीं जप्त्वा क्षिप्रमाकर्षणं भवेत् ॥ ८० ॥ देवताश्च ग्रहा नागा दानवा राक्षसाश्च ये ।
- तल्लक्षणं-यथा मध्यमामध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधितै । तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके । क्षोभाभिधाना मुद्रेयं सर्वसंक्षोभकारिणी ॥ इति । १ 'प्राग्वत्' ख पाठ ।