गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 103, कुल 446 में से
संदर्भ में पढ़ेंभुनक्ति बहुलान् भोगान् रसान्नानाविधानपि ॥ ६० ॥ यद् ब्रुवन्त्यक्षरं लोके भुनक्ति बहुलं सुखम् । शून्यागारे विहारे च चिन्त(येन्नो?यन्त्यो) जपेत्पराम् ॥६१॥ आकर्षणं भवेत्तस्य सर्वकामं ततो लभेत् । प्रथमानन्दहृदयो द्वितीय(म?मु)पभोगवान् ॥ ६२ ॥ तृतीयमुपभोगेन चतुर्थमपि कामयेत् । पञ्चमं प्रथमं पुण्यं मन्त्रसिद्धिकरं परम् ॥ ६३ ॥ पञ्चमं तु विशेषेण भोगयेत् कामयेत् सदा । पञ्चमाभ्यसनाद्धीरः पूजाया लभते फलम् ॥ ६४ ॥ कुण्डगोलोद्भवैर्द्रव्यैः स्वयम्भूकुसुमेन च । रोचनाकुंकुमाभ्यां च जपमालां प्रलेपयेत् ॥ ६५ ॥ कर्पूरागुरुकस्तूरीरोचनाकुंकुमेन च । जपमालामुपस्कृत्य प्रतिष्ठां विधिवच्चरेत् ॥ ६६ ॥ तद्द्रवै रचताञ्छुद्वान् सं(श्रा?स्रा)व्य च पुनः पुनः । वारिणा शोधितं कृत्वा सिन्दूरे निक्षिपेत् ततः ॥ ६७ ॥ पटे चित्रमये शुद्धे नक्तं यः पूजयेन्नरः । जप्त्वा विद्यां च मालायां सर्वकाममुपालभेत् ॥ ६८ ॥ आनीय कन्यकां दिव्यां प्रमदां यौवनोन्नताम् । उचितां मूलमन्त्रेण सुशीलां चारुहासि(हीं?नीम् ) ॥६६॥ सर्वदानन्दहृदयां घृणालज्जाविवर्जिताम् । गुरुभक्तां सुवेशां च देवतापूजने रताम् ॥ ७० ॥ तस्या गात्रे न्यसेन्मन्त्री पञ्चकामाञ् शरानपि ।