गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 102, कुल 446 में से
संदर्भ में पढ़ेंतृतीयः पटलः । ०२१ जप्त्वाऽनन्दमयो भूत्वा सर्वकाममुपालभेत् ॥ ४६ ॥ इयं स्वप्नावती नाम्ना विद्या त्रैलोक्यविश्रुता । आकर्षणकरी विद्या जगदाह्लादकारिणी ॥ ५० ॥ साधनं च प्रवक्ष्यामि यस्मादाकर्षणं भवेत् । स्वर्गे म(र्ते?र्त्ये) च पाताले नारीणां पुरुषस्य च ॥ ५१ ॥ नार्यो वश्या विशेषेण वशं (जा?या)ति जगत्त्रयम् । भोगदा मोक्षदा चैषा विद्या गन्धर्वसेविता ॥ ५२ ॥ महाभोगवती विद्या महदैश्वर्यदायिनी । तथा मधुमतीसिद्धिर्जायतेऽस्याः प्रसादतः ॥ ५३ ॥ बृहत्त्वं च लघुत्वं च दर्शनादर्शने तथा । प्रवेशं परकायस्य कामरूपो भवेद् ध्रुवम् ॥ ५४ ॥ पुंसां रूपं स्त्रियो रूपं यच्चान्यद्रूपमुत्तमम् । सर्वं तत् परमं रूपं तस्या एव न संशयः ॥ ५५ ॥ कान्तिस्तुष्टिस्तथा पुष्टिः श्रद्धा लज्जा दया घृणा । धृतिः शान्तिस्तथा ऋद्धिः सिद्धिर्बुद्धिर्मतिः क्षमा ॥ ५६ ॥ महामाया महाबुद्धिर्महाविद्या महोदया । महामहत्करी विद्या ब्रह्मविद्यैव केवला ॥ ५७ ॥ महाभूतदिने नक्तं श्मशाने यदि साधकः । सहस्रैकप्रमाणेण किं न सिध्यति भूतले ॥ ५८ ॥ यो जपेत् पञ्चमीं विद्यां परां त्रैलोक्यमातृकाम् । स नरो देवदेवेशो महादेव इवापरः ॥ ५९ ॥ भोगारमा लभते भुक्तिं नानाभोगेन केवलम् ।