गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
DevanagariHindipublished446 पृष्ठ
पृष्ठ 101, कुल 446 में से
संदर्भ में पढ़ेंपृष्ठ 101
अर्द्धेन्दुबिन्दुसंयुक्तं चतुर्थं कूटमुत्तमम् । शक्तिकूटं प्रवक्ष्यामि शृणु देवि सुदुर्लभम् ॥ ३६ ॥ यच्छ्रुत्वा साधकाः सर्वे लभन्ते मुक्तिमुत्तमाम् ।
- प्राणबीजं समुद्धृत्य कामबीजं समुद्धरेत् ॥ ४० ॥ इन्द्रबीजं तथा दे(वि?वी) क्रमेण विनियोजयेत् । सान्तं वह्निसमायुक्तं चतुर्थस्वरसंयुतम् ॥ ४१ ॥ नादबिन्दुकलायुक्तं शक्तिकूटं समुद्धरेत् । फलं चास्या विशेषेण साधनं च वरानने ॥ ४२ ॥ कथितव्यं मया देवि¹ संक्षेपात् कथ्यतेऽधुना । एषा विद्या महाविद्या गुह्याद् गुह्यतमा प्रिये ॥ ४३ ॥ भोगदा मोक्षदा चैव सर्वकामार्थसिद्धिदा । वाग्भवं प्रथमं कूटं शक्तिकूटं तु पञ्चमम् ॥ ४४ ॥ मध्यकूटत्रयं देवि काम(बी?रा)जं मनोहरम् । काम(बी?रा)जं प्रवक्ष्यामि कूटभेदेन तच्छृणु ॥ ४५ ॥ ज्ञात्वा तत्साधयेद् देवि असाध्यमपि भूतले । सौभाग्यं प्रथमं कूटं महासौभाग्यदायकम् ॥ ४६ ॥ त्रिकूटमेककूटेन काम(बी?रा)जं महत्पर²म् । एवं कूटत्रयेणैव नित्या सौभाग्यसुन्दरी ॥ ४७ ॥ एकत्र पञ्चकूटेन नित्यं कूटत्रयान्विता । दुर्लभा सर्वलोकेषु महासौभाग्यसुन्दरी ॥ ४८ ॥ एतस्या एव विद्याया मध्यकूटस्य मध्यमम् ।
- प्राणो ह काम क इन्द्र ल देवी स सान्तमित्यादिना ह्रीं इति शक्तिकूटम् । १ 'महादेवि' क पाठ । २ 'दम्' क पाठ ।