गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 100, कुल 446 में से
संदर्भ में पढ़ेंतृतीयः पटलः । १६ तदेव पञ्चकूटं तु पञ्चतत्त्वेन पञ्चमी ॥ ३० ॥ † कामं विष्णुयुतं शक्तिर्माया शक्रश्च पार्वति । पश्चाद् देवि महामायाबीजं चान्ते नियोजयेत् ॥ ३१ ॥ ‡ शिवबीजं समुद्धृत्य शक्तिबीजं तदन्तरम् । तदधः कामबीजं तु भूर्व्योमानलसंयुक्तम् ॥ ३२ ॥ चतुर्थस्वरसंयुक्तमर्द्धेन्दुबिन्दुभूषितम् । प्रथमं कामराजस्य कूटं त्रैलोक्यपूजितम् ॥ ३३ ॥ मध्यकूटं प्रवक्ष्यामि कामराजस्य मध्यगम् । अतिगुह्यतरं देवि स्नेहाद् वक्ष्यामि केवलम् ॥ ३४ ॥ ✠ वियद्विष्णुयुतं देवि मादनं तदनन्तरम् । तदधो हंसबीजं तु इन्द्रबीजं समुद्धरेत् ॥ ३५ ॥ विष्णोः पदं वह्नियुतं मायाबीजं समुद्धरेत् । मध्यकूटमिदं प्रोक्तं महासौभाग्यदायकम् ॥ ३६ ॥ तुरीयं तु प्रवक्ष्यामि शृणु देवि सुदुर्लभम् । § कामबीजं महेशानि शिवबीजं ततः परम् ॥ ३७ ॥ तदधो वायुबीजं तु इन्द्रबीजं नियोजयेत् । वियद् वह्निसमायुक्तं चतुर्थस्वरभूषितम् ॥ ३८ ॥ † काम. क विष्णुयुतोऽकारोपेत., शक्ति. ए माया ई शक्रो ल महामाया ह्री इत्येतत्पञ्चमीविद्याया प्रथम वग्भवकूटम् । ‡ मध्यकूटत्रय कामराजस्य । तत्र शिव ह शक्ति. स कामः क भू ल व्योमानलेत्या- दिना ह्रीँ, इति कामराजस्य प्रथम कूटम् । ✠ वियत् ह विष्णुयुतमकारोपेतम् । मादन क हस. ह इन्द्र. ल विष्णोः पदमि- त्यादिना ह्रीं, इति कामराजस्य मध्यम कूटम् । § काम. क शिव. ह वायु. य इन्द्र ल वियदित्यादिना ह्री, इति कामराजस्य तृतीय कूटम् ।