भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 99, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 99

१८ गन्धर्वतन्त्रे । शापभ्रष्टेन गन्धर्वो न नरो दैवयोगतः । यो जानाति महाविद्यां पञ्चकूटात्मिकां पराम् ॥ २० ॥ स भवेत् खचरो देवि षण्मासान्नात्र संशयः । सदा ज्ञानविशुद्धात्मा मोक्षभागी भवेन्नरः ॥ २१ ॥ भोगेन लभते मुक्तिं यदि जानाति पञ्चमीम् । पञ्चपञ्चाक्षरीं विद्यां योऽसौ जानाति साधकः ॥ २२ ॥ स पूज्यः सर्वलोकेषु स देवो नतु मानुषैः¹ । त्रिकूटमेवं² कूटेषु कूटमेकं त्रिपञ्चकम् ॥ २३ ॥ पञ्चपञ्चाक्षरी विद्या त्रिकूटा पञ्चकूटकैः । पञ्चविंशतितत्त्वेन वर्णरूपेण संस्थिता ॥ २४ ॥ एकवर्णे त्रिकूटे च त्रिकूटे पञ्च देवताः । एकवर्णे पञ्चदश देवताः परिकीर्तिताः ॥ २५ ॥ पञ्चविंशतितत्त्वेन त्रिकूटे पञ्चसंख्यया । पञ्चसप्ततिपूर्वाणि तेन तासां शतत्रयम् ॥ २६ ॥ पञ्चकूटान्विता विद्या परा सौभाग्यसुन्दरी । वर्णरूपेण सा देवी जगदाधाररूपिणी ॥ २७ ॥ अक्षरात् सर्वमुत्पन्नं जगदेतच्चराचरम् । नित्यमेकाक्षरं ब्रह्म अक्षरं परमं पदम् * ॥ २८ ॥ जप्यमेकाक्षरं ब्रह्म आदिकूटान्तमध्यगम् । जप्त्वा तत्साधयेत् सर्वं बहुजप्तेनं³ किं फलम् ॥ २९ ॥ तदेव परमं गुह्यं महासौभाग्यदायकम् । १ 'मानव' ख पाठः । २ 'क' क पाठः । ३ 'जाप्येन' ख पाठः ।

  • सकृज्जप्त्वाक्षर मन्त्रं ब्रह्मभूयाय कल्पते । इत्यधिक. ख पाठः ।
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक) · पृष्ठ 99, कुल 446 में से · BharatKosha