भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 98, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 98

तृतीयः पटलः । १७ नान्यत् परतरं देवि विद्यते तद्वहिष्कृते । पञ्चविंशतितत्त्वेन कूटके पञ्च देवताः ॥ ९ ॥ आदौ कामेश्वरी ज्ञेया ततो वज्रेश्वरी शुभा । तृतीया भगमाला च तुर्या त्रिपुरसुन्दरी ॥ १० ॥ श्रीमत्त्रिपुरसुन्दर्याश्चिन्तनीया परा कला । सा एव पञ्चमी शक्तिः परब्रह्मस्वरूपिणी ॥ ११ ॥ परमानन्दरूपं यज्जगतां कारणं महत् । तस्या देव्यास्तु तद्रूपमुदयास्तविवर्जितम् ॥ १२ ॥ स्थूलत्वे स्थूलरूपा सा सूक्ष्मत्वे सूक्ष्मरूपिणी । स्थूलसूक्ष्मप्रभेदेन जगत्कारणरूपिणी ॥ १३ ॥ योऽसौ विश्वेश्वरो देवो विश्वं व्याप्य स्थितश्च यः । सैव विश्वेश्वरी देवी व्यापकत्वेन संस्थिता ॥ १४ ॥ नित्या सा सुखरूपा च महासुखशुभप्रदा । तत्स्वरूपानन्दमयी परमानन्दरूपिणी ॥ १५ ॥ किं पुनः शक्तिरूपेण परब्रह्मस्वरूपिणी । तस्याः पुनः पुनः सृष्टिर्जायते लीयते सदा ॥ १६ ॥ तस्माच्छक्तिः प्रधाना च शक्त्या व्याप्तमिदं जगत् । सर्वदानन्दहृदयश्चाद्वैतानन्दपारगः ॥ १७ ॥ समयाचारसंपन्नो भोगी भोगपरायणः । सदा ज्ञानविशुद्धात्मा गुरुभक्तो जितेन्द्रियः ॥ १८ ॥ गन्धर्वरूपवान् भूत्वा पञ्चमीं समुपासयेत् । पृथिव्यां मान (वो?वः) श्रेष्ठो यदि जानाति पञ्चमीम् ॥ १९ ॥