भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 97, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 97

तृतीयः पटलः । देव्युवाच देवदेव जगन्नाथ भक्तानामार्तिनाशन । पञ्चपञ्चाक्षरीं विद्यां पञ्चमीं सर्वकामदाम् ॥ १ ॥ अधुना कथयेशान समग्रां पापनाशिनीम् । ईश्वर उवाच दुर्लभा पञ्चमी विद्या पञ्चकूटात्मिका शुभा ॥ २ ॥ भुक्तिमुक्तिप्रदा शुद्धा सुखदा दुःखनाशिनी । शृणु देवि प्रवच्यामि¹ यथा सा चिन्त्यते परा ॥ ३ ॥ गुरुभक्तेन शुद्धेन साधकेन सुबुद्धिना । देवी पञ्चात्मकं सर्वं जगदेतच्चराचरम् ॥ ४ ॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च । पृथिवी ब्राह्मणी शक्तिर्जलं नारायणी तथा ॥ ५ ॥ तेजो रुद्रस्य रुद्राणी वायुरीशस्य चेश्वरी । माहेश्वरी तथाकाशं शक्तिर्महेश्वरस्य च ॥ ६ ॥ - पञ्चदेवात्मकं पञ्च पञ्चमीपञ्चशक्तयः । या शक्तिः सर्वभूतानां जगच्चैतन्यरूपिणी ॥ ७ ॥ सा * एव पञ्चमीविद्या जगदाधाररूपिणी । सा एव हि जगत्सर्वं सा एव परमा कला ॥ ८ ॥

१ 'ख्या' ख पाठ ।

  • सन्धेरभाव ऽप्येष. एवमग्रेपि बोध्यम् ।