गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 111, कुल 446 में से
संदर्भ में पढ़ेंरसाकर्षणरूपाव्याद् रसे वै परमेश्वरी । गन्धाकर्षणरूपा मां पातु गन्धे च सर्वदा ॥ ५२ ॥ चित्ताकर्षणरूपा मां पायादाकृष्टिकर्मणि । धैर्याकर्षणरूपा तु पातु धैर्यविधौ सदा ॥ ५३ ॥ स्मृत्याकर्षणरूपाव्याज्ज्ञानाकर्षणकर्मणि । नामाकर्षणरूपाव्यान्नामव्याहरणे सदा ॥ ५४ ॥ बीजाकर्षणरूपा मां सर्वबीजप्ररोपणे । परजीवाकर्षणे पात्वात्माकर्षणरूपिणी ॥ ५५ ॥ अमृताकर्षिणी पातु अमृतीकरणे सदा । शरीराकर्षिणी पातु सदा शरीररक्षणे ॥ ५६ ॥ अनङ्गकुसुमा पातु पुरतः सर्वकर्मणि । अनङ्गमेखला पातु पृष्ठतः परमेश्वरी ॥ ५७ ॥ अनङ्गमदना पातु वामतो मे महेश्वरी । दक्षिणे सर्वदा पातु अनङ्गमदनातुरा ॥ ५८ ॥ नित्यं चानङ्गरेखाव्यादूर्ध्वं मम सदा प्रिये । अनङ्गवेगिनी पातु अधो मे परमेश्वरी ॥ ५९ ॥ तथानङ्गांकुशा नित्यं पातु मां दिक्षु सर्वदा । अनङ्गमालिनी पातु विदिक्षु मम सर्वदा ॥ ६० ॥ सर्वसंक्षोभिणी चोध्र्वे पातु मां जगदीश्वरी । सर्वविद्राविणी चाधो दिक्षु सर्वविकर्षणी ॥ ६१ ॥ सर्वाह्लादकरी शक्तिर्विदिक्षु परिरक्षतु ।