भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 112, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 112

सर्वसंमोहिनी पातु समन्तात् परमेश्वरी ॥ ६२ ॥ अन्तर्बहिश्च मां पातु सर्वस्तम्भनकारिणी । तथैव पातु मां नित्यमाकाशे सर्वजृम्भणी ॥ ६३ ॥ पाताले चैव मां पातु सर्ववश्यकरी तथा । देवलोके सदा पातु सर्वरञ्जनकारिणी ॥ ६४ ॥ सर्वोन्मदनशक्तिर्मां भूतले परिरक्षतु । सर्वार्थसाधनी शक्तिः पायाद्भूतगणालये ॥ ६५ ॥ सिद्धानामालये पातु सर्वसंपत्तिपूरणी । राक्षसानां च यक्षाणां सर्वमन्त्रमयी गृहे ॥ ६६ ॥ असुराणां निवासे तु सर्वद्वन्द्वक्षयंकारी । सर्वसिद्धिप्रदा देवी पातु राजगृहे सदा ॥ ६७ ॥ सर्वसंपत्प्रदा पातु स्वगृहे सर्वसंपदि । सर्वप्रियङ्करी पातु सर्वलोकेषु सर्वदा ॥ ६८ ॥ सर्वमङ्गलकार्येऽव्यात् सर्वमङ्गलकारिणी । सर्वकामप्रदा देवी सर्वकार्येषु सर्वदा ॥ ६९ ॥ ऐश्वर्ये सर्वदा पातु सर्वैश्वर्यप्रदायिनी । सर्वमृत्युप्रशमनी पायान्नित्यं ममालये ॥ ७० ॥ सर्वारम्भे सदा पातु सर्वविघ्नविनाशिनी । देहसौन्दर्यकाले तु पातु सर्वाङ्गसुन्दरी ॥ ७१ ॥ सर्वसौभाग्यकाले तु सर्वसौभाग्यदायिनी । सर्वज्ञा च गृहे पातु सर्वशक्तिमयी रणे ॥ ७२ ॥ सर्वैश्वर्यप्रदा मार्गे सर्वज्ञानमयी जले । १ 'कर्मणि' क. पाठ. । २ 'सर्वदुःखविमोचिनी' क. पाठः ।