गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 113, कुल 446 में से
संदर्भ में पढ़ेंसर्वव्याधिषु सर्वत्र सर्वव्याधिविनाशिनी ॥ ७३ ॥ पर्वते पातु प्रबला सर्वाधारस्वरूपिणी । सर्वपापहरा पातु सर्वकर्मसु सर्वदा ॥ ७४ ॥ सर्वानन्दकरी देवी नानाघकृतगोचरे । सर्ववैरिभये पातु सर्वरक्षास्वरूपिणी ॥ ७५ ॥ सर्वसंकल्पकार्येषु सर्वेप्सितफलप्रदा । वशिनी वश्यकार्येऽव्यात् कामेशी स्तम्भनेऽवतु ॥ ७६ । मोहने मोदिनी पातु विमलोच्चाटनेऽवतु । अरुणा पातु मां वादे जैयिनी जल्पकर्मणि ॥ ७७ ॥ सर्वेश्वरी काम्यकार्ये कौलिनी भेदकर्मणि । जृम्भणे सर्वदा पा(तु?न्तु) शराः पञ्च महेश्वरि ॥ ७८ । धनुर्मोहविधौ पातु पाशस्तु वश्यकर्मणि । महातेजोमयः पातु स्तम्भने मां तथाङ्कुशः ॥ ७९ ॥ सर्वज्ञा हृदये पातु नित्य(कृता?तृप्तिः) च शीर्षके । अनादिबोधिका पातु नित्यं शिखाप्रदेशके ॥ ८० ॥ कवचे मां स्वतन्त्राव्यात् नेत्रे नित्यमलुप्तिका । अचिन्त्यशक्ति(व?र)स्त्रेषु पायात् परंमसिद्धिदा ॥ ८१ ॥ कामेश्वरी रतौ पातु युद्धे वज्रेश्वरी तथा । नित्यं पातु महेशानी श्रीकामे भगमालिनी ॥ ८२ ॥ रसे रूपे च गन्धे च शब्दे स्पर्शे च पातु माम् । सर्वानन्दमयी देवी महात्रिपुरसुन्दरी ॥ ८३ ॥