गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 114, कुल 446 में से
संदर्भ में पढ़ेंईशाने वटुकः पातु आग्नेय्यां योगिनीगणाः । त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि पान्तु नः ॥ ८४ ॥ क्षेत्रेशो नैर्ऋते पातु गणेशो वायुमन्दिरे । मातङ्गवनिता पातु शेषिका कुलसुन्दरी ॥ ८५ ॥ शक्तिर्मां सर्वदा पातु मूलाधारनिवासिनी । इतीदं कवचं देवि त्रिषु लोकेषु दुर्लभम् ॥ ८६ ॥ यन्नोक्तं डामरे तन्त्रे यन्नोक्तं रुद्रयामले । सर्वतन्त्रेषु यन्नोक्तं गन्धर्वे प्रकटीकृतम् ॥ ८७ ॥ तव प्रीत्या महादेवि गोपनीयं प्रयत्नतः । तव नाम्नि स्मृते देवि सर्वयज्ञफलं लभेत् ॥ ८८ ॥ सर्वत्रैव जयप्राप्तिर्वाञ्छा सर्वत्र सिध्यति । नाम्नः शतगुणं स्तोत्रं व्याख्यानं चापि तच्छतम् ॥ ८६ ॥ तस्माच्छतगुणं ध्यानं ध्यानाच्छतगुणो मनुः । मन्त्राच्छतगुणं देवि कवचं ते मयोदितम् ॥ ६० ॥ यस्मै कस्मै न दातव्यं सुगोप्यमतिदुर्लभम् । न देयं परशिष्याय कृपणाय सुरेश्वरि ॥ ६१ ॥ शिष्याय भक्तिहीनाय चुम्बकाय तथैव च । गुरुभक्तिविहीनाय परहिंसारताय च ॥ ६२ ॥ निन्दकाय कुशीलाय दाम्भिकाय महेश्वरि । अभक्तेभ्योऽपि पुत्रेभ्यो दत्त्वा मृत्युमवाप्नुयात् ॥ ६३ ॥ यो ददाति निषिद्धेभ्यः कवचं मन्मुखाच्च्युतम् । तस्य नश्यन्ति देवेशि विद्यायुःकीर्त्तिसंचयाः ॥ ६४ ॥