गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
सर्वव्याधिषु सर्वत्र सर्वव्याधिविनाशिनी ॥ ७३ ॥ पर्वते पातु प्रबला सर्वाधारस्वरूपिणी । सर्वपापहरा पातु सर्वकर्मसु सर्वदा ॥ ७४ ॥ सर्वानन्दकरी देवी नानाघकृतगोचरे । सर्ववैरिभये पातु सर्वरक्षास्वरूपिणी ॥ ७५ ॥ सर्वसंकल्पकार्येषु सर्वेप्सितफलप्रदा । वशिनी वश्यकार्येऽव्यात् कामेशी स्तम्भनेऽवतु ॥ ७६ । मोहने मोदिनी पातु विमलोच्चाटनेऽवतु । अरुणा पातु मां वादे जैयिनी जल्पकर्मणि ॥ ७७ ॥ सर्वेश्वरी काम्यकार्ये कौलिनी भेदकर्मणि । जृम्भणे सर्वदा पा(तु?न्तु) शराः पञ्च महेश्वरि ॥ ७८ । धनुर्मोहविधौ पातु पाशस्तु वश्यकर्मणि । महातेजोमयः पातु स्तम्भने मां तथाङ्कुशः ॥ ७९ ॥ सर्वज्ञा हृदये पातु नित्य(कृता?तृप्तिः) च शीर्षके । अनादिबोधिका पातु नित्यं शिखाप्रदेशके ॥ ८० ॥ कवचे मां स्वतन्त्राव्यात् नेत्रे नित्यमलुप्तिका । अचिन्त्यशक्ति(व?र)स्त्रेषु पायात् परंमसिद्धिदा ॥ ८१ ॥ कामेश्वरी रतौ पातु युद्धे वज्रेश्वरी तथा । नित्यं पातु महेशानी श्रीकामे भगमालिनी ॥ ८२ ॥ रसे रूपे च गन्धे च शब्दे स्पर्शे च पातु माम् । सर्वानन्दमयी देवी महात्रिपुरसुन्दरी ॥ ८३ ॥
ईशाने वटुकः पातु आग्नेय्यां योगिनीगणाः । त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि पान्तु नः ॥ ८४ ॥ क्षेत्रेशो नैर्ऋते पातु गणेशो वायुमन्दिरे । मातङ्गवनिता पातु शेषिका कुलसुन्दरी ॥ ८५ ॥ शक्तिर्मां सर्वदा पातु मूलाधारनिवासिनी । इतीदं कवचं देवि त्रिषु लोकेषु दुर्लभम् ॥ ८६ ॥ यन्नोक्तं डामरे तन्त्रे यन्नोक्तं रुद्रयामले । सर्वतन्त्रेषु यन्नोक्तं गन्धर्वे प्रकटीकृतम् ॥ ८७ ॥ तव प्रीत्या महादेवि गोपनीयं प्रयत्नतः । तव नाम्नि स्मृते देवि सर्वयज्ञफलं लभेत् ॥ ८८ ॥ सर्वत्रैव जयप्राप्तिर्वाञ्छा सर्वत्र सिध्यति । नाम्नः शतगुणं स्तोत्रं व्याख्यानं चापि तच्छतम् ॥ ८६ ॥ तस्माच्छतगुणं ध्यानं ध्यानाच्छतगुणो मनुः । मन्त्राच्छतगुणं देवि कवचं ते मयोदितम् ॥ ६० ॥ यस्मै कस्मै न दातव्यं सुगोप्यमतिदुर्लभम् । न देयं परशिष्याय कृपणाय सुरेश्वरि ॥ ६१ ॥ शिष्याय भक्तिहीनाय चुम्बकाय तथैव च । गुरुभक्तिविहीनाय परहिंसारताय च ॥ ६२ ॥ निन्दकाय कुशीलाय दाम्भिकाय महेश्वरि । अभक्तेभ्योऽपि पुत्रेभ्यो दत्त्वा मृत्युमवाप्नुयात् ॥ ६३ ॥ यो ददाति निषिद्धेभ्यः कवचं मन्मुखाच्च्युतम् । तस्य नश्यन्ति देवेशि विद्यायुःकीर्त्तिसंचयाः ॥ ६४ ॥
तं हिंसन्ति च योगिन्यो मदीयशासनात् प्रिये । परे नरकमाप्नोति जन्मकोटिशतानि च ॥ ९५ ॥ सर्वलक्षणयुक्ताय यन्त्रमन्त्ररताय च । शिष्याय शान्तचित्ताय गुरुभक्तिरताय च ॥ ९६ ॥ उदके लवणं लीनं यथा भवति पार्वति । मनो भवति वै लीनं पादयोः श्रीगुरोः प्रिये ॥ ९७ ॥ तदा देयं महद्गुह्यं कृपया चातिदुर्लभम् । गुरोः पादप्रसादेन श्रीविद्या यदि लभ्यते ॥ ९८ ॥ तथैव कवचं देवि त्रिषु लोकेषु दुर्लभम् । स च देवो हरः साक्षात् तत्पत्नी परमेश्वरी ॥ ९९ ॥ प्रमादादपि देवेशि श्रीगुरोर्नाम नाददेत् । यस्य भक्तिर्गुरौ नित्यं वर्तते देव¹वत् प्रिये ॥ १०० ॥ तस्य मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा । कवचस्य तथा सिद्धिर्गु²टिकायाश्च सुन्दरि ॥ १०१ ॥ इदं कवचमज्ञात्वा यो जपेत् सुन्दरीं पराम् । नवलक्षं प्रजप्त्वापि * तस्य विद्या न सिध्यति ॥ १०२ ॥ शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः । सर्वभूतलये सुप्ते निशायामर्धरात्रके ॥ १०३ ॥ हेतुयुक्तो महेशानि निर्जने पशुवर्जिते । रक्तासनोपविष्टस्तु रक्ताभरणभूषितः ॥ १०४ ॥ ताम्बूलपूरितमुखो धूपामोदसुगन्धितः । संस्थाप्य वामभागे तु शक्तिं स्वामिपरायणाम् ॥ १०५ ॥ १ 'त' क पाठ । २ 'र्द्धा' क पाठ. । * ऐश पाठ. ।
रक्तवस्त्रपरीधानां शिवमन्त्रधरां शुभाम् । या शक्तिः सा महादेवी हररूपस्तु साधकः ॥ ११०६ ॥ अन्योन्यचिन्तनाद् देवि देवत्वमुपजायते । शक्तियुक्तो यजेद् देवीं श्रीचक्रे लक्षणान्विते ॥ १०७ ॥ पुष्पाञ्जलित्रयं देव्यै मूलमन्त्रेण दापयेत् । भोगैश्च मधुपर्काद्यैस्ताम्बुलाद्यैः सुवासितैः ॥ १०८ ॥ पूजयित्वा महादेवीं पूजाकोटिफलं लभेत् । पूर्वोक्त(स्या?न्या)समेवास्मिन् समये च प्रविन्यसेत् ॥१०६॥ आत्मानं परमं ध्यायेद् दिव्यस्त्रीभिरलंकृतम् । दिव्यं मूर्ध्नि महच्छत्रं सहस्रदलनिर्मितम् ॥ ११० ॥ सुधावर्षिमुखाम्भोजं सस्मितं दिव्यवर्चसम् । परमानन्दसंदोहमुदितं परमव्ययम् ॥ १११ ॥ दिव्यालङ्कारवस्त्राढ्यं दिव्यमाल्यानुलेपितम् । दिव्यासनसमासीनं दिव्यभोगविभोगिनम् ॥ ११२ ॥ सर्वगं सर्वभूतेशं सृष्टिस्थित्यन्तकारिणम् । निर्लेपं निर्मलं शान्तं सर्वव्यापिनमीश्वरम् ॥ ११३ ॥ ततो देवीं हृद२म्भोजे ध्यायेत् तद्गतमानसः । ज(वा?पा)कुसुमसंकाशां बालार्ककिरणारुणाम् ॥ ११४ ॥ रक्तपद्मसमासीनां रक्ताभरणभूषिताम् । रक्तवस्त्रपरीधानां पूर्णचन्द्रनिभानना३म् ॥ ११५ ॥ सैवाहमित्यभेदेन द्वैतहीनं विचिन्तयेत् । अद्वैतानन्दभावेन साधकः परमात्मनः ॥ ११६ ॥ १ 'भू' क पाठ । २ 'दा' क. पाठ । ३ 'न' क पाठ. ।
च्छायया शोणया व्याप्तं जगदेतच्चराचरम् । भावनावशसंपन्नो भावयेद् भावनापरः ॥ ११७ ॥ एवं चिन्तापरस्याशु सिद्धयोऽष्टौ भवन्ति हि । संप्राप्य विपुलान् भोगान् राज्यास्पदं च भूतले ॥ ११८॥ ऐन्द्रं पदमवाप्याथ विहरन् नन्दने वने । उर्वशीप्रमुखाभिश्च स्वच्छया दिव्यभोग(दा?वा)न् ॥ ११९॥ तदाप्नोति परं स्थानं दुरापं त्रिदशैरपि । ततश्च कवचं दिव्यं पठेदेकमनाः प्रिये ॥ १२० ॥ तस्य सर्वार्थसिद्धिः स्यान्नात्र कार्या विचारणा । इदं रहस्यं परमं परं स्वस्त्ययनं महत् ॥ १२१ ॥ सर्वेषामेव हिंस्राणां डाकिनीनां महेश्वरि । निशाचरगणानां च वारणं नाशनं तथा ॥ १२२ ॥ आयुर्बलप्रदं नित्यं तुष्टिपुष्टिशुभावहम् । नारीणां मृतवत्सानां गुणवत्सुतदायकम् ॥ १२३ ॥ सूत्या(:) सूतिगृहस्यापि बालग्रहनिवारणम् । विषद(स्य?स्यु)ग्रहाणां च सदा शान्तिविवर्द्धनम् ॥ १२४॥ विषशस्त्राग्निरुद्राणां वारणं जयदं युधि । जले स्थले तथाकाशे सर्वोत्पातेषु सर्वदा ॥ १२५ ॥ त्रैलोक्यवासिनामेव सर्वमङ्गलदायकम् । सकृद्यस्तु पठेद् देवि कवचं देवदुर्लभम् ॥ १२६ ॥ हयमेधफलं तस्य भवत्येव न संशयः । नित्यं यस्तु पठेद् देवि शृणुयाद्वा समाहितः ॥ १२७ ॥ १ 'न' क पाठ. ।
स सर्वांल्लभते कामान् परे देवीपुरं व्रजेत् । संग्रामे च जयेच्छत्रून् मातङ्गानिव केसरी ॥ १२८ ॥ दहेत् तृणं यथा वह्निस्तथा शत्रूञ्जयेत् सदा । नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च ॥ १२६ ॥ तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्राणि च यानि च । माल्यानि कुसुमानीव सुखदानि भवन्ति हि ॥ १३० ॥ पराः पराङ्मुखा यान्ति वि(वा?ना)युद्धेन पार्वति । व्याधिस्तस्य कदाचित्तु दुःखं नास्ति कदाचन ॥ १३१ ॥ गतिस्तस्यैव सर्वत्र वायोस्तुल्या सदा भवेत् । दीर्घायुः कामभोगी सो ꕤ धनधान्यसमृद्धिमान् ॥ १३२ ॥ जितव्याधी रूपवान् स्याद् गुणवानभिजायते । चातुर्वर्ण्यं करे तस्य भवत्येव न संशयः ॥ १३३ ॥ अन्यस्य वल्लभः सो † वै पुत्रदारकुलान्वितः । इह लोके सुखं भुक्त्वा परे मुक्तो भविष्यति ॥ १३४ ॥ न तस्य दुर्गतिर्देवि कदाचिदपि जायते । दुर्ग्रहाः सुग्रहा यान्ति वशं गच्छन्ति मानवाः ॥ १३५ ॥ न तस्य विघ्नो भवति न शोको भुवि जायते । वेतालाश्च पिशाचाश्च राक्षसाश्च भयानकाः ॥ १३६ ॥ ते सर्वे विलयं यान्ति कवचस्यास्य कीर्त्तनात् । तस्यैव शत्रवो देवि चिन्तामात्रप्रयोगतः ॥ १३७ ॥ विनश्यन्ति न संदेहो योगिन्यो भक्षयन्ति तान् । ꕤ ऐश पाठ. । † ऐश पाठः ।
शान्तिकादीनि कर्माणि मारणोच्चाटनानि च ॥ १३८ ॥ वचोमात्रेण देवेशि तस्य सिध्यन्ति भूतले । न पापैर्लिप्यते देवि महोग्रैस्तु सुदारुणैः ॥ १३९ ॥ न कालस्य वशं गच्छेन्न जरा नच दुःखिता । तत्र देशे न दुर्भिक्षं नच मारी प्रवर्त्तते ॥ १४० ॥ न रोगास्तत्र जायन्ते नोत्पाताः प्रभवन्ति च । विविधाश्चैव योगिन्यस्तस्य साधक ⁕ संनिधौ ॥ १४१ ॥ शान्तिं चैव प्रयच्छन्ति रक्षन्ति पुत्रवत् सदा । सर्वदा च सुखप्राप्तिः सर्वतीर्थफलं लभेत् ॥ १४२ ॥ नानेन सदृशः कश्चित् साधको भुवि जायते । सुरासुरमनुष्याणां तत्त्वरूपः सुखावहः ॥ १४३ ॥ येन विज्ञातमात्रेण स्मृतेनैव च सुन्दरि । अक्षयांल्लभते कामान् मुक्तिस्थानं च गच्छति ॥ १४४ ॥ सर्वलक्षणहीनोऽपि स्मरणात् कलुषापहः । अहो कवचमाहात्म्यं पठमानस्य नित्यशः ॥ १४५ ॥ विनापि योगचर्येण योगिनां समतां व्रजेत् । भूर्जत्वचि समालिख्य चक्रं तत्त्वविनिर्मितम् ॥ १४६ ॥ मध्येत्रिकोणं संलिख्य साध्यसाधकयोर्लिपिम् । तदूर्ध्वं मूलमन्त्रं च मातृकार्र्णेन वेष्टयेत् ॥ १४७ ॥ अगुरुद्रवमिश्रेण चन्दनेन सुगन्धिना । एतद्यन्त्रं महादेवि सुरासुरसुदुर्लभम् ॥ १४८ ॥ ⁕ विभक्तिलोप आर्षः । १ 'न' क पाठ । २ 'कुज' क पाठः ।
रोचनाकुङ्कुमेनैव तद्वाह्ये कवचं लिखेत् । श्वेतसूत्रेण संवेष्ट्य लाक्षया परिवेष्टयेत् ॥ १४९ ॥ पञ्चामृतैः पञ्चगव्यैः स्नपयित्वा शुभेऽहनि । संपूज्य देवीरूपां तां गुटिकां सर्वकामदाम् ॥ १५० ॥ प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र निवेशयेत् । चारुणा शातकुम्भेन भूषितां योनिमुद्रया ॥ १५१ ॥ अन्तर्योनिं ततो ध्यात्वा तत्र संस्थापयेद् बुधः । एषा तु गुटिका देवि कण्ठलग्ना धनप्रदा ॥ १५२ ॥ शीर्षे वश्यक(रे?री) देवि कट्यां स्तम्भनकारिणी । बद्धा वामभुजे चैषा वैरिपक्षविनाशिनी ॥ १५३ ॥ जठरे रोगशमनी पुत्रदा हृदि संस्थिता । विद्याकरी ललाटस्था शिखायां तु यशःप्र(दः?दा) ॥ १५४ ॥ दक्षिणे बाहुमूले वै यदि तिष्ठति सर्वदा । तदा सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते ॥ १५५ ॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । न शक्नोमि प्रभावं हि³ कथितुं ❊ कवचस्य वै ॥ १५६ ॥ एतत्तु कवचेनैवं पठनं साधनं प्रिये । कथितं मे तव स्नेहाद् गोपनीयं सदा प्रिये ॥ १५७ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे महात्रिपुरसुन्दरीत्रैलोक्यमोहनाख्यं कवचं नाम चतुर्थः पटलः ॥ ४ ॥ १ ‘स्ना’ क. पाठ । २ ‘मात्रे’ क पाठ । ३ ‘त’ क. पाठ ।
- अय णिज्लोपे ऐश. पाठ ।
पञ्चमः पटलः । ————— पार्वत्युवाच विना यन्त्रेण चेत् पूजा देवता न प्रसीदति । तस्मात् कथय देवेश यन्त्रमस्या मनोहरम् ॥ १ ॥ यस्य दर्शनमात्रेण दारिद्र्यं नश्यति ध्रुवम् । ईश्वर उवाच । सैवमालोच्य सर्गादौ सच्चिदानन्दरूपिणी ॥ २ ॥ समस्ततत्त्वसंयोगात् स्मृत्यधिष्ठानरूपिणी । व्यक्तीकरोति नित्या(वः?या)प्रकृतिः परमः पुमान् ॥ ३ ॥ सा तत्त्वसंज्ञा चिन्मात्रांऽज्ज्योतिषः संनिधेस्तथा । विविकीर्षुर्योनिभूता कचिदभ्येति बिन्दुना ॥ ४ ॥ अतिव्यक्ता पराशक्तिरविनाभावलक्षणा । अखण्डपरविच्छक्तिर्व्याप्ता चिद्रूपिणी विभुः ॥ ५ ॥ समस्ततत्त्वभावेन विवर्ते(त्सा?च्छा)समन्विता । प्रयाति बिन्दुभावं च क्रियाप्राधान्यलक्षणम् ॥ ६ ॥ बैन्दवं मातृचक्रस्य त्रिरूपत्वं पुनर्भवत् । बिन्दुः शिवात्मकस्तत्र बीजं शक्त्यात्मकं स्मृतम् ॥७॥ तयोर्योगे भवेन्नादस्तोभ्यो यच्चिन्तयाम्यहम् । तस्मात् तानि च चक्राणि तत्प्रकारः प्रकथ्यते ॥ ८ ॥ ततः प्राङ्मुख आसीनश्चक्रोद्धारं समारभेत् । हेमरूप्यादिताम्राणां पट्टे चातिमनोहरे ॥ ६ ॥ 'स्व' क पाठ । २ 'त्रा ज्यो' क पाठ ।
चतुरस्रे समे शुद्धे मध्योच्छ्लूनविभूषिते । युग्माङ्गामिलितं देवि पट्टस्येह समीरितम् ॥ १० ॥ अथवा परमेशानि भूमौ चक्रं समालिखेत् । हस्तमात्रमिते शुद्धे गोमयेनोपलेपिते ॥ ११ ॥ सिन्दूररजसा तत्र कुङ्कुमेनाथ वा प्रिये । आलेखेच्चक्रराजं च लेखन्या हैमया तथा ॥ १२ ॥ अथवा कुशमूलेन दर्भपाणिः समाहितः । नेत्ररम्यं यथा चक्रं तथा कुर्याद्विचक्षणः ॥ १३ ॥ प्रतीच्यग्रं लिखेदेकं त्रिकोणं तदुपर्यथ * । पूर्वत्रिकोणमध्याग्रं त्रिकोणान्तरमालिखेत् ॥ १४ ॥ अथ संधिद्वय भित्त्वा प्रागग्रं विलिखेत् परम् । त्रिकोणमध्यगं चक्रमष्टकोणं तथा भवेत् ॥ १५ ॥ ततो दशारचक्रस्य निर्माणं शृणु पार्वति । दक्षिणोत्तरगा रेखास्तिस्रो यास्तत्र तास्वपि ॥ १६ ॥ मध्यरेखां परित्यज्य रेखे द्वे परिवर्धयेत् । तेन षट्कोणकं कृत्वा संधिभेदे चतुष्टयम् ॥ १७ ॥ कृत्वी रेखाद्वयं कुर्याद् दशकोणं यथा भवेत् । तथान्यदशकोणस्य निर्माणं परिकीर्त्यते ॥ १८ ॥ दक्षिणोत्तरगास्त्वेवं रेखाः पञ्च भवन्ति याः । तासां रेखा(द्व?त्र)यं मध्ये हित्वा पूर्वापरं तु तत् ॥ १९ ॥ बाह्यरेखाद्वयं देवि पूर्ववत् परिवर्धयेत् । 'लि' क पाठ. । द्वे क पाठ ।
तेन षट्कोणकं कृत्वा संधिभेदचतुष्टयम् ॥ २० ॥ कृत्वा रेखाद्वयं कुर्याद् दशकोणं यथा भवेत् । चतुर्दशारचक्रस्य निर्माणं कथ्यतेऽधुना ॥ २१ ॥ दक्षिणोत्तरगास्त्वेवं रेखाः सप्त भवन्ति याः । तासां रेखा(द्व?त्र)यं हित्वा बाह्ये पूर्वापरं ततः ॥ २२ ॥ दीर्घं रेखाद्वयं मन्त्री पूर्ववत् परिवर्धयेत् । तेन षट्कोणकं कृत्वा संधिभेदचतुष्टयम् ॥ २३ ॥ दशारीकृत्य तेनैव संधिभेदचतुष्टयात् । रेखाद्वयं बहिः कुर्याद्रेखाः स्युर्नव चैव वै ॥ २४ ॥ कल्पयेदथ तस्याग्रैरन्यकोणचतुष्टयम् । एवं चतुर्दशारं स्याद्विलोचनमनोहरम् ॥ २५ ॥ एवं निष्पादिते चक्रे यद्भवति च तच्छृणु । मध्ये त्रिकोणमेव स्यात् तन्मध्ये बिन्दुरिष्यते ॥ २६ ॥ चतुर्णामपि चक्राणां बहिरग्रास्त्रिकोणकाः । त्रिचत्वारिंशच्च गुणिता योनयोऽष्टौ च शोभनाः ॥ २७ ॥ मत्स्या द्वादश संपन्नाश्चतुष्कोणोपशोभिताः । ग्रन्थयोऽष्टादशापि स्युः षट्पथा ग्रन्थयोऽपरे ॥ २८ ॥ चतुर्विंशतिसंख्याताः शोभनास्ते चतुष्पथाः । अष्टकोणकगर्भं तु चतुष्कोणत्रयं तथा ॥ २९ ॥ दक्षिणोत्तरपूर्वासु दिक्षु संभवति क्रमात् । दक्षिणोत्तरगास्तत्र नव रेखा भवन्ति हि ॥ ३० ॥
१ 'द्वं' क. पाठ. । २ 'मेन' क. पाठ. ।
नव रेखास्तथैवान्या वह्निवायुदिगायताः । नैव रेखास्तथैवान्या नैर्ऋतेशदिगायताः ॥ ३१ ॥ तत्र ये पञ्च देवेशि साधकाभिमुखाग्रकाः । त्रिकोणास्ते शक्तयः स्युः पञ्च (ने?त)त्र शुभोदयाः ॥३२॥ पूर्वाग्रा ये तु चत्वारो वह्नयस्ते प्रकीर्तिताः । एवं चक्रं विनिर्माय बाह्ये वृत्तं विलिख्य च ॥ ३३ ॥ तेनाष्टदलपद्मस्य निर्माणं तद्बहिस्तथा । वृत्तेन षोडशदलं लिखेत् पद्मं मनोहरम् ॥ ३४॥ वृत्तत्रयं तु तद्वाह्ये तद्वाह्ये चतुरस्रकम् । त्रिरेखं भूपुरं विद्धि चतुर्द्वारोपशोभितम् ॥ ३५ ॥ एवं भवन्ति चक्राणि बिन्दुर्नैव नव क्रमात् । वृत्तत्रयं महेशानि न पूजायां निगद्यते ॥ ३६ ॥ एवमेतस्य चक्रस्य प्रभावो वर्णि(तं?तुं) मया । न शक्यते महेशानि कल्पकोटिशतैरपि ॥ ३७॥ एवमेतन्महाचक्रं महाश्रीत्रिपुरामयम् । यन्त्रं शरीरमित्याहुर्मन्त्रं ज्ञानमखण्डितम् ॥ ३८ ॥ शरीरं त्रिविधं प्राहुर्भौतिकं च मनोमयम् । परं ज्ञानमयं नित्यं यदनाशि निरन्तरम् ॥ ३६ ॥ मुद्रां भौतिकमित्याहुर्यन्त्रं विद्धि मनोमयम् । मन्त्रं ज्ञानमयं विद्धि एवं त्रिधा वपुर्भवेत् ॥ ४० ॥ मुद्राशरीरं मे (ब्रूहि?विद्धि) अङ्गभूतं तथा परम् । १ क एतत् पद्यार्धं नास्ति। २ 'हरम्' क. पाठ. । ३ 'काम' क पाठः ।
योनिभूता महामुद्रा शरीरमिति कीर्तितम् ॥ ४१ ॥ तस्या॑ रससमुत्पन्नाः कामेश्वर्यादिकास्तथा । बिन्दुचक्रं वरारोहे सर्वानन्दमयं प्रिये ॥ ४२ ॥ संविद्ध्येयं महाचक्रं ज्ञेयं ब्रह्मस्वरूपकम् । ततः परं शिवाङ्कस्थां महात्रिपुरसुन्दरीम् ॥ ४३ ॥ समावाह्य यजेद्देवीं परयाथ सपर्यया । अग्नीशासुरवायव्यमध्ये दिक्षु च पार्वति ॥ ४४ ॥ षडङ्गयुवतीः † पश्चात् पूजयित्वा विधानतः । तन्मयीश्चाथ नित्याश्च यजेत् सौभाग्यकामुकः ॥ ४५ ॥ महात्र्यस्रं स्मरेत् तत्र पञ्चदशकलात्मकम् । वामावर्तक्रमेणैव कलाः पञ्चदश क्रमात् ॥ ४६ ॥ अकाराद्यौँमुकारान्तां दक्षिणास्यां विचिन्तयेत् । ततश्च पूर्वरेखायां दीर्घकर्णादि † पञ्चकम् ॥ ४७ ॥ विचिन्त्योत्तररेखायां शक्त्या(सी?दि) ⁕ परिचिन्तयेत् । कामेश्वर्यादिकानित्यास्तथैव परिपूजयेत् § ॥ ४८ ॥ प्रतिपत्तिथिमारभ्य पौर्णमास्यन्तमद्रिजे । एकैकां पूजयेन्नित्यां तत्तत्तिथिक्रमेण तु ॥ ४९ ॥ आदावेकैकवृद्धया तु यजेत् साधकसत्तमः । १ 'ध्व' ख पाठः । २ 'का' ख पाठः । ३ 'द्यौ उ' ख पाठः । ४ 'न्ता' ख पाठः । † सर्वज्ञादिशक्ती । ‡ ऊकारादि । ⁕ एकारादि । § नित्या यथा १ कामेश्वरी २ भगमालिनी ३ नित्यक्लिन्ना ४ भेरुण्डा ५ वह्निवासिनी ६ वज्रेश्वरी ७ शिवदूती ८ त्वरिता ९ कुलसुन्दरी १० नित्या ११ नीलपताका १२ विजया १३ सर्वमङ्गला १४ ज्वालामालिनी १५ चित्रा ॥ ह्रीं श्रीं अं कामेश्वरिनित्याश्रीपादुका पूजयामि तर्पयामि नम इत्येव वामावर्तेन सपूजयेत् ।
कृष्णपक्षे महेशानि पूजयेत्तुं त्रिमण्डलम् ॥ ५० ॥ विचित्राया वरारोहे यावत् कामेश्वरी भवेत् । पूजनीया विलोमेन वान्त्या(ः) तथैव पार्वति ॥ ५१ ॥ उभयोः पक्षयोरन्ते यथोक्तध्यानयोगतः । (स्व?स)र्गस्थां षोडशीं नित्यां महात्रिपुरसुन्दरीम् † ॥५२॥ तत्तद्विद्यास्तथा ध्यानं यन्त्राणि पूजनानि तु । होमान्यन्यानि सर्वाणि काम्यानि च वरानने ॥ ५३ ॥ पटलैः पञ्चसंख्यैस्तु पश्चात् वक्ष्याम्यहं शिवे । अत्राङ्गावृत्तिभूतानां शृणु पूजां वरानने ॥ ५४ ॥ ईश्वर उवाच तत्र तत्र महेशानि समावाह्य विधानतः । पूजयेत् साधको भक्त्या य(दो?थो)क्तक्रमवर्त्म(का?ना) ।५५। मूलाद्येनैव तत्राद्यां हंसेन पुटितेन तु । द्वितीयेन द्वितीयां च तृतीयेन तृतीयकाम् ॥ ५६ ॥ चतुर्थेन चतुर्थी च पञ्चमेनैव पञ्चमीम् । षष्ठेन तु तथा षष्ठीं सप्तमेन तु सप्तमीम् ॥ ५७ ॥ अष्टमेनाष्टमीं चैव नवमीं नवमेन तु । दशमीं दश(मी?मे)नैव एकादशीं तथैव हि ॥ ५८ ॥ एकादशाक्षरेणैव द्वादशीं द्वादशेन तु । त्रयोदशीं च तत्रैव त्रयोदशाक्षरेण तु ॥ ५६ ॥ चतुर्दशाक्षरेणैव यजेत् तत्र चतुर्दशीम् । पञ्चदशाक्षरेणैव यजेत् पञ्चदशीं ततः ॥ ६० ॥ १ ‘त्तु’ ख पाठः । † पूजयेदिति शेषः ।
समस्तेन तथा देवि षोडशीं परिपूजयेत् । आदावन्ते च मध्ये च सपर्या खलु पार्वति ॥ ६१ ॥ महादेव्याः समाख्याता नित्यैव विहितागमे । तामेव पूजयेद्वापि महात्रिपुरसुन्दरीम् ॥ ६२ ॥ यतस्तस्याः समुत्पन्नं नित्यामण्डलमीदृशम् । अथान्यत् संप्रवक्ष्यामि काम्यं कामार्थसिद्धये ॥ ६३ ॥ यथोक्तां कुलजां शस्तां चारुलक्षणलञ्चिताम् । स्वेच्छाऋतुमतीं पूर्णयौवनाच्छन्नैशैशवाम् ॥ ६४ ॥ तत्राद्यदिवसे देवीं पूजयित्वा यथाविधि । यजेत् कामेश्वरीमाद्यां द्वितीयां द्वितीये तथा ॥ ६५ ॥ तृतीयेऽथ तृतीयां च चतुर्थे च चतुर्थिकाम् । पञ्चमे पञ्चमीं चैव षष्ठीं षष्ठे तथाहनि ॥ ६६ ॥ सप्तमे सप्तमीं चैव अष्टमीमष्टमेऽहनि । नवमे नवमीं देवीं दशमे दशमीं तथा ॥ ६७ ॥ एकादशीं तथा रुद्रे द्वादशीं द्वादशेऽहनि । त्रयोदशदिने देवीं त्रयोदशीं क्रमेण तु ॥ ६८ ॥ चतुर्दशीं तथा शक्रे पञ्चदशीं ततो यजेत् । षोडशीं षोडशे पूर्णे यजेद् (बु?वृ)द्धिक्रमेण तु ॥ ६९ ॥ अन्याश्चैव यजेत् पश्चादपरं यत् प्रकीर्तितम् । षोडशर्तुर्निशाः स्त्रीणां तासु क्रमोत्क्रमाद् यजेत् ॥ ७० ॥ यथाविधि क्रमेणैव न दिनं व्यतिलङ्घयेत् । १ 'आद्या' क पाठ । २ 'र्णा' क पाठ । ३ 'च्छादिनशै' क पाठ । ४ 'र्थी' क पाठः ।
नैव विसर्जयेत् तां तु यावत्सो¹ स्यात् फलार्थिनी ॥ ७१ ॥ फलार्थिनीं विदित्वैव विसृज्यान्यां समाश्रयेत् ।² निशाः षोडश संयुक्ताः षोडश शक्तयस्तथा ॥ ७२ ॥ एकस्मिन् दिवसे देवि लभ्यन्ते भाग्ययोगतः । पूजयेत्ताः प्रयत्नेन यथावत् पूर्वसूचिताः ॥ ७३ ॥ रात्रौ वृद्ध्या दिने हान्या रसे मध्ये स्थितो बली । ऋतुमेकं क्रमेणैव स भवेत् सुरपादपः ॥ ७४ ॥ विमलाजयिनीमध्ये गुरवः * कथितास्तु ते । त्रैलोक्यमोहने चक्रे बुद्धं च परिपूजयेत् ॥ ७५ ॥ ब्रह्मविष्णुशिवाख्यास्तास्तिस्रो रेखाश्च तन्निभाः । तत्रादौ ब्रह्मरेखायामणिमाद्याः † स्थिताः प्रिये ॥ ७६ ॥ वराभयकरा रक्ताः समीहितफलप्रदाः । कौमारी पीतवर्णा च शक्तितोमरधारिणी ॥ ७७ ॥ वरदाभयहस्ता च ध्यातव्या परमेश्वरी । अङ्कुशं तोमरं विद्युत्कुलिशौ बिभ्रती करैः ॥ ७८ ॥ इन्द्राणी गौरवर्णा च ध्येया सर्वसमृद्धिदा । वैष्णवी श्याववर्णा च शंखचक्रवराभयान् ॥ ७६ ॥ हस्तपद्मैश्च बिभ्राणा दिव्यभूषणभूषिता । वाराही श्यामवर्णा च पोत्रिवक्त्रसमन्विता ॥ ८० ॥ हलं च मुसलं खड्गं खेटकं दधती करैः । १ 'स्या' क पाठः । २ 'ष' क पाठः । * अष्टारचक्रे गुरुक्रमसपर्या बोध्येति सूच्यते । † अणिमा-लघिमा-महिमा-ईशित्व-प्राकाम्य-भुक्तिसिद्धि-इच्छासिद्धि-रससिद्धि-मोक्षसि- द्धय इत्येता ब्रह्मरेखाया पूज्या ।
चामुण्डा कृष्णवर्णा च शूलं डमरुकं तथा ॥ ८१ ॥ खङ्गं वेतालकं चैव दधाना दक्षिणैर्भुजैः । खेटकं चषकं चैव नागं घण्टां च वामकैः ॥ ८२ ॥ ब्रह्माणीप्रमुखाः ꕤ सर्व(१) विष्णुरेखा समाश्रिताः । ब्रह्माणी रक्तवर्णा च चतुर्भिः शोभिता मुखैः ॥ ८३ ॥ वरदाभयहस्ता च कुण्डिडेकाञ्चलसत्करा । माहेश्वरी श्वेतवर्णा त्रिनेत्रा शूलधारिणी ॥ ८४ ॥ कृपाणमे(नं?णं) परशुं दधाना पाणिभिः प्रिये । भेदमस्याः परं गुह्यं संक्षेपात् कथ्यतेऽधुना ॥ ८५ ॥ महालक्ष्मीस्तु पीताभा पद्मे दर्पणमेव च । मातुलुङ्गफलं चैव दधाना परमेश्वरी ॥ ८६ ॥ शिवरेखां समाश्रित्य संक्षोभग्यादिकाः § स्थिताः । रक्ताः संक्षोभणीमुख्याः स्वस्वमुद्राकरान्विताः ॥ ८७ ॥ एताः प्रकटयोगिन्यो ध्येयाः सर्वसमृद्धये । अणिमापुरतो देवि त्रिपुरा चक्रनायिका ॥ ८८ ॥ शुद्धस्फटिकसंकाशा मुक्कारत्नविभूषिताँ । पुस्तकं चाक्षमालां च कमलद्वयमुत्तमम् ॥ ८६ ॥ बिभ्रती सिद्धये ध्येया महापातकनाशिनी । त्रिवृत्तं‡ चन्द्रसूर्याग्निरूपं विद्धि पार्वति ॥ ६० ॥ १ 'स' क पाठः । २ 'ण्ड' क पाठ । ३ 'थिता' ख पाठ. । ४ 'ता.' क. पाठः । ꕤ ब्रह्माणी-माहेश्वरी कौमारी-वैष्णवी-वाराही-इन्द्राणी-चामुण्डा-महालक्ष्म्य इत्येता मध्यमाया विष्णुरेखायां पूज्याः । § सक्षोभग्यादयो मुद्रादेव्य प्रकटयोगिन्यस्त्रैलोक्यमो- हने चक्रे चतुरस्ररेखात्मके शिवरेखाया सपूज्या. । ‡ वृत्तत्रयं महेशानि न पूजाया निगद्यते (१।३६) इत्युक्त्या पूजाया नोपयुज्यते तत ।
सर्वाशापूरके चक्रे रविवेददलान्विते । ब्राह्मां चिन्तयेत्तत्र स्रवत्पीयूषवर्षिणीं ॥ ६१ ॥ कामाकर्षणिाद्यास्तु षोडशस्वरसंयुताः । सृणिपाशधराः सर्वा रूपेणापीह तत्समाः ॥ ६२ ॥ एतास्तु गुप्तयोगिन्यो * ध्येयाः सर्वसमृद्धिदाः । कामाकर्षिणिकाग्रे तु त्रिपुरेशी व्यवस्थिता ॥ ६३ ॥ त्रिपुरासदृशी ध्येया त्रिपुरेशा वरानने । अष्टपत्रं वरारोहे जपाकुसुमसंनिभम् ॥ ६४ ॥ सर्वसंक्षोभ(नं?णं) नाम सर्वकामफलप्रदम् । चिन्तयित्वा शिवं तत्र वर्गाष्टकसमन्विताः ॥ ६५ ॥ अनङ्गकुसुमाद्यास्तु स्मृता गुप्ततराश्च‡ ताः । सुन्दरीसदृशाः सर्वाः सर्वकामफलप्रदाः ॥ ६६ ॥ अनङ्गकुसुमाग्रे तु ध्येया त्रिपुरसुन्दरी । सर्वालङ्कारसंपन्ना पुस्तकं चाक्षमालिकाम् ॥ ६७ ॥ वराभयौ च दधती बन्धूककुसुमप्रभा । सर्वसौभाग्यदे चक्रे दाडिमीकुसुमप्रभे ॥ ६८ ॥ चतुर्दशारके देवि भास्करं परिचिन्तयेत् ।
१ ‘र्पिते’ ख पाठ. । २ ‘श्च’ क पाठ ।
- ता यथा कामबुद्धयहंकारशब्दस्पर्शरूपरसगन्धचित्तधैर्यस्मृतिनामबीजात्मामृतशरीराकर्ष- णयः इति गुप्तयोगिन्य सर्वाशापरिपूरक षोडशदलचक्रे सपूज्या. । ‡ यथा अनङ्गकुसुमानङ्गमेखलानङ्गमदनानङ्गमदनातुरानङ्गरेखानङ्गवेगिन्यनङ्गाङ्कुशानङ्गमालि- नीति एता गुप्ततरयोगिन्य. सर्वसङ्क्षोभकारकेऽष्टदलचक्रे सपूज्याः ।
२. पटल ११-२०: यन्त्र-निर्माण, न्यास-पद्धति एवं पञ्चाङ्ग-साधन
५०. गन्धर्वतन्त्रे । सर्वसंक्षोभणीमुख्याः ¹ संप्रदायाः स्मृता इमाः ॥ ९९ ॥ सर्वसंक्षोभणीशक्तेः पुरस्त्रिपुरवासिनी । सुन्दर्याः सदृशी ध्येया सर्वकामफलप्रदा ॥ १०० ॥ सर्वार्थसाधके चक्रे सर्वरक्षाकरे तथा । बाह्यारदशकोणे च जपाकुसुमसंनिभे ॥ १०१ ॥ नारायणीं प्रपूज्याथ बाह्यारदशके ततः । सर्वसिद्धिप्रदामुख्याः कुलकौला ‡ इमाः स्मृताः ॥१०२॥ सर्वसिद्धिप्रदाग्रे तु त्रिपुरो²श्रीर्व्यवस्थिता । उदयद्भानुसहस्राभा दिव्यालंकारभूषिता ॥ १०३ ॥ पुस्तकं जपमालां च दधती वरदाभये । अन्तर्दशारचक्रे च पूज्याः सर्वसमृद्धिदाः ॥ १०४ ॥ तथा निग[र्व?र्भ]योगिन्यः सर्वज्ञाँ³प्रमुखाः ❊ प्रिये । सर्वज्ञापुरतो देवि स्थिता त्रिपुरमालिनी ॥ १०५ ॥ इन्द्रगोपप्रभा देवी पाशाङ्कुशकपालिनी । महाभीति[ह?क]रा सम्यक् साधकानां क्षणादियम् ॥ १०६॥ १ 'क्ति' क पाठ । २ 'र' ख पाठ. । ३ 'ज्ञा' क पाठः । † सर्वसंक्षोभिणी-सर्वविद्राविणी-सर्वाकर्षिणी-सर्वाह्लादिनी-सर्वमोहिनी-सर्वस्तम्भिनी- सर्वजृम्भिणी-सर्ववशङ्करी-सर्वरञ्जनी-सर्वोन्मादिनी-सर्वार्थसाधनी-सर्वसम्पत्पूरणी-सर्वमन्त्रम - यी-सर्वद्वन्द्वक्षयकरीत्येता संप्रदाययोगिन्य सर्वसौभाग्यदायके चतुर्दशारचक्रे पूज्या. । ‡ सर्वाद्य सिद्धिप्रदा-सपक्षप्रदा-प्रियकरी-मङ्गलकारिणी-कामप्रदा-दु खविमोचिनी-मृत्यु- प्रशमनी-विघ्नविनाशिनी-अङ्गसुन्दरी-सौभाग्यदायिनी-इत्येता कुलकौलयोगिन्यः सर्वार्थसा- धके बर्हिर्दशारचक्रे पूज्या । ❊ सर्वज्ञा-सर्वशक्ति-सर्वैश्वर्यप्रदा-सर्वज्ञानमयी-सर्वव्याधिविनाशिनी-सर्वाधारस्वरूपा-स- र्वपापहरा-सर्वानन्दमयी-सर्वरक्षास्वरूपिणी-सर्वेप्सितफलप्रदा-इत्येता निगर्भयोगिन्यः सर्व- रक्षाकरेऽन्तर्दशारचक्रे पूजनीया ।
सर्वरोगहरे चक्रे बालार्ककिरणारुणे । वशिनीप्रमुखास्तत्र रहस्ययोगिनीर्यजेत् ॥ १०७॥ वशिनीप्रमुखा*रक्ता वराभयकरान्विताः । पुस्तकं जपमालां च दधानाः परमेश्वरि ॥ १०८॥ वशिनीपुरतो देवि सर्वसिद्धिप्रदायिनीम् । तथा त्रिपुरासिद्धां च ध्यायेद्विषविनाशिनीम् ॥ १०९॥ त्रिकोणाग्रविभागस्य दक्षिणे वामके प्रिये । चतुष्पथसमायुक्ते बाणचापौ प्रपूजयेत् ॥ ११०॥ त्रिकोणास्योर्ध्वभागस्य वामदक्षिणयोस्तथा । षडध्वरूपयोर्देवि पाशाङ्कुशौ व्यवस्थितौ ॥ १११ ॥ सर्वसिद्धिप्रदे चक्रे त्रिकोणे परमेश्वरि । उद्यत्सूर्यसहस्राभे बन्धूककुसुमप्रभे ॥ ११२॥ अतिरहस्ययोगिन्यः संस्थिता वीरवन्दिते । अग्रकोणे अग्निचक्रे कामरूपे वरानने ॥ ११३॥ कामेश्वरी त्रिनेत्रा च तरुणारुणविग्रहा । चषकं वरदानं च पाशं चाङ्कुशमेव च ॥ ११४॥ दधतीं परमेशानि ध्येया रुद्रात्मशक्तिका । वामकोणे त्रिकोणस्य सूर्यचक्रे महेश्वरि ॥ ११५॥ जालन्धरे महापीठे वज्रेश्वरी समीरिता । त्रिनेत्रा पूर्णचन्द्रास्या बन्धूककुसुमप्रभा ॥ ११६॥ १ 'लक' क पाठ । २ 'स' क. पाठ. ।
- वशिनी-कामेश्वरी-मोदिनी-विमला-अरुणा-जयिनी-सर्वेश्वरी-कौलिनी-वाग्देवता इत्येता रहस्ययोगिन्यः सर्वरोगहरे वसुकोणचक्रे सपूज्या ।