गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 117, कुल 446 में से
संदर्भ में पढ़ेंच्छायया शोणया व्याप्तं जगदेतच्चराचरम् । भावनावशसंपन्नो भावयेद् भावनापरः ॥ ११७ ॥ एवं चिन्तापरस्याशु सिद्धयोऽष्टौ भवन्ति हि । संप्राप्य विपुलान् भोगान् राज्यास्पदं च भूतले ॥ ११८॥ ऐन्द्रं पदमवाप्याथ विहरन् नन्दने वने । उर्वशीप्रमुखाभिश्च स्वच्छया दिव्यभोग(दा?वा)न् ॥ ११९॥ तदाप्नोति परं स्थानं दुरापं त्रिदशैरपि । ततश्च कवचं दिव्यं पठेदेकमनाः प्रिये ॥ १२० ॥ तस्य सर्वार्थसिद्धिः स्यान्नात्र कार्या विचारणा । इदं रहस्यं परमं परं स्वस्त्ययनं महत् ॥ १२१ ॥ सर्वेषामेव हिंस्राणां डाकिनीनां महेश्वरि । निशाचरगणानां च वारणं नाशनं तथा ॥ १२२ ॥ आयुर्बलप्रदं नित्यं तुष्टिपुष्टिशुभावहम् । नारीणां मृतवत्सानां गुणवत्सुतदायकम् ॥ १२३ ॥ सूत्या(:) सूतिगृहस्यापि बालग्रहनिवारणम् । विषद(स्य?स्यु)ग्रहाणां च सदा शान्तिविवर्द्धनम् ॥ १२४॥ विषशस्त्राग्निरुद्राणां वारणं जयदं युधि । जले स्थले तथाकाशे सर्वोत्पातेषु सर्वदा ॥ १२५ ॥ त्रैलोक्यवासिनामेव सर्वमङ्गलदायकम् । सकृद्यस्तु पठेद् देवि कवचं देवदुर्लभम् ॥ १२६ ॥ हयमेधफलं तस्य भवत्येव न संशयः । नित्यं यस्तु पठेद् देवि शृणुयाद्वा समाहितः ॥ १२७ ॥ १ 'न' क पाठ. ।