गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 116, कुल 446 में से
संदर्भ में पढ़ेंरक्तवस्त्रपरीधानां शिवमन्त्रधरां शुभाम् । या शक्तिः सा महादेवी हररूपस्तु साधकः ॥ ११०६ ॥ अन्योन्यचिन्तनाद् देवि देवत्वमुपजायते । शक्तियुक्तो यजेद् देवीं श्रीचक्रे लक्षणान्विते ॥ १०७ ॥ पुष्पाञ्जलित्रयं देव्यै मूलमन्त्रेण दापयेत् । भोगैश्च मधुपर्काद्यैस्ताम्बुलाद्यैः सुवासितैः ॥ १०८ ॥ पूजयित्वा महादेवीं पूजाकोटिफलं लभेत् । पूर्वोक्त(स्या?न्या)समेवास्मिन् समये च प्रविन्यसेत् ॥१०६॥ आत्मानं परमं ध्यायेद् दिव्यस्त्रीभिरलंकृतम् । दिव्यं मूर्ध्नि महच्छत्रं सहस्रदलनिर्मितम् ॥ ११० ॥ सुधावर्षिमुखाम्भोजं सस्मितं दिव्यवर्चसम् । परमानन्दसंदोहमुदितं परमव्ययम् ॥ १११ ॥ दिव्यालङ्कारवस्त्राढ्यं दिव्यमाल्यानुलेपितम् । दिव्यासनसमासीनं दिव्यभोगविभोगिनम् ॥ ११२ ॥ सर्वगं सर्वभूतेशं सृष्टिस्थित्यन्तकारिणम् । निर्लेपं निर्मलं शान्तं सर्वव्यापिनमीश्वरम् ॥ ११३ ॥ ततो देवीं हृद२म्भोजे ध्यायेत् तद्गतमानसः । ज(वा?पा)कुसुमसंकाशां बालार्ककिरणारुणाम् ॥ ११४ ॥ रक्तपद्मसमासीनां रक्ताभरणभूषिताम् । रक्तवस्त्रपरीधानां पूर्णचन्द्रनिभानना३म् ॥ ११५ ॥ सैवाहमित्यभेदेन द्वैतहीनं विचिन्तयेत् । अद्वैतानन्दभावेन साधकः परमात्मनः ॥ ११६ ॥ १ 'भू' क पाठ । २ 'दा' क. पाठ । ३ 'न' क पाठ. ।