गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 124, कुल 446 में से
संदर्भ में पढ़ेंनव रेखास्तथैवान्या वह्निवायुदिगायताः । नैव रेखास्तथैवान्या नैर्ऋतेशदिगायताः ॥ ३१ ॥ तत्र ये पञ्च देवेशि साधकाभिमुखाग्रकाः । त्रिकोणास्ते शक्तयः स्युः पञ्च (ने?त)त्र शुभोदयाः ॥३२॥ पूर्वाग्रा ये तु चत्वारो वह्नयस्ते प्रकीर्तिताः । एवं चक्रं विनिर्माय बाह्ये वृत्तं विलिख्य च ॥ ३३ ॥ तेनाष्टदलपद्मस्य निर्माणं तद्बहिस्तथा । वृत्तेन षोडशदलं लिखेत् पद्मं मनोहरम् ॥ ३४॥ वृत्तत्रयं तु तद्वाह्ये तद्वाह्ये चतुरस्रकम् । त्रिरेखं भूपुरं विद्धि चतुर्द्वारोपशोभितम् ॥ ३५ ॥ एवं भवन्ति चक्राणि बिन्दुर्नैव नव क्रमात् । वृत्तत्रयं महेशानि न पूजायां निगद्यते ॥ ३६ ॥ एवमेतस्य चक्रस्य प्रभावो वर्णि(तं?तुं) मया । न शक्यते महेशानि कल्पकोटिशतैरपि ॥ ३७॥ एवमेतन्महाचक्रं महाश्रीत्रिपुरामयम् । यन्त्रं शरीरमित्याहुर्मन्त्रं ज्ञानमखण्डितम् ॥ ३८ ॥ शरीरं त्रिविधं प्राहुर्भौतिकं च मनोमयम् । परं ज्ञानमयं नित्यं यदनाशि निरन्तरम् ॥ ३६ ॥ मुद्रां भौतिकमित्याहुर्यन्त्रं विद्धि मनोमयम् । मन्त्रं ज्ञानमयं विद्धि एवं त्रिधा वपुर्भवेत् ॥ ४० ॥ मुद्राशरीरं मे (ब्रूहि?विद्धि) अङ्गभूतं तथा परम् । १ क एतत् पद्यार्धं नास्ति। २ 'हरम्' क. पाठ. । ३ 'काम' क पाठः ।