गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 123, कुल 446 में से
संदर्भ में पढ़ेंतेन षट्कोणकं कृत्वा संधिभेदचतुष्टयम् ॥ २० ॥ कृत्वा रेखाद्वयं कुर्याद् दशकोणं यथा भवेत् । चतुर्दशारचक्रस्य निर्माणं कथ्यतेऽधुना ॥ २१ ॥ दक्षिणोत्तरगास्त्वेवं रेखाः सप्त भवन्ति याः । तासां रेखा(द्व?त्र)यं हित्वा बाह्ये पूर्वापरं ततः ॥ २२ ॥ दीर्घं रेखाद्वयं मन्त्री पूर्ववत् परिवर्धयेत् । तेन षट्कोणकं कृत्वा संधिभेदचतुष्टयम् ॥ २३ ॥ दशारीकृत्य तेनैव संधिभेदचतुष्टयात् । रेखाद्वयं बहिः कुर्याद्रेखाः स्युर्नव चैव वै ॥ २४ ॥ कल्पयेदथ तस्याग्रैरन्यकोणचतुष्टयम् । एवं चतुर्दशारं स्याद्विलोचनमनोहरम् ॥ २५ ॥ एवं निष्पादिते चक्रे यद्भवति च तच्छृणु । मध्ये त्रिकोणमेव स्यात् तन्मध्ये बिन्दुरिष्यते ॥ २६ ॥ चतुर्णामपि चक्राणां बहिरग्रास्त्रिकोणकाः । त्रिचत्वारिंशच्च गुणिता योनयोऽष्टौ च शोभनाः ॥ २७ ॥ मत्स्या द्वादश संपन्नाश्चतुष्कोणोपशोभिताः । ग्रन्थयोऽष्टादशापि स्युः षट्पथा ग्रन्थयोऽपरे ॥ २८ ॥ चतुर्विंशतिसंख्याताः शोभनास्ते चतुष्पथाः । अष्टकोणकगर्भं तु चतुष्कोणत्रयं तथा ॥ २९ ॥ दक्षिणोत्तरपूर्वासु दिक्षु संभवति क्रमात् । दक्षिणोत्तरगास्तत्र नव रेखा भवन्ति हि ॥ ३० ॥
१ 'द्वं' क. पाठ. । २ 'मेन' क. पाठ. ।