भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 125, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 125

योनिभूता महामुद्रा शरीरमिति कीर्तितम् ॥ ४१ ॥ तस्या॑ रससमुत्पन्नाः कामेश्वर्यादिकास्तथा । बिन्दुचक्रं वरारोहे सर्वानन्दमयं प्रिये ॥ ४२ ॥ संविद्ध्येयं महाचक्रं ज्ञेयं ब्रह्मस्वरूपकम् । ततः परं शिवाङ्कस्थां महात्रिपुरसुन्दरीम् ॥ ४३ ॥ समावाह्य यजेद्देवीं परयाथ सपर्यया । अग्नीशासुरवायव्यमध्ये दिक्षु च पार्वति ॥ ४४ ॥ षडङ्गयुवतीः † पश्चात् पूजयित्वा विधानतः । तन्मयीश्चाथ नित्याश्च यजेत् सौभाग्यकामुकः ॥ ४५ ॥ महात्र्यस्रं स्मरेत् तत्र पञ्चदशकलात्मकम् । वामावर्तक्रमेणैव कलाः पञ्चदश क्रमात् ॥ ४६ ॥ अकाराद्यौँमुकारान्तां दक्षिणास्यां विचिन्तयेत् । ततश्च पूर्वरेखायां दीर्घकर्णादि † पञ्चकम् ॥ ४७ ॥ विचिन्त्योत्तररेखायां शक्त्या(सी?दि) ⁕ परिचिन्तयेत् । कामेश्वर्यादिकानित्यास्तथैव परिपूजयेत् § ॥ ४८ ॥ प्रतिपत्तिथिमारभ्य पौर्णमास्यन्तमद्रिजे । एकैकां पूजयेन्नित्यां तत्तत्तिथिक्रमेण तु ॥ ४९ ॥ आदावेकैकवृद्धया तु यजेत् साधकसत्तमः । १ 'ध्व' ख पाठः । २ 'का' ख पाठः । ३ 'द्यौ उ' ख पाठः । ४ 'न्ता' ख पाठः । † सर्वज्ञादिशक्ती । ‡ ऊकारादि । ⁕ एकारादि । § नित्या यथा १ कामेश्वरी २ भगमालिनी ३ नित्यक्लिन्ना ४ भेरुण्डा ५ वह्निवासिनी ६ वज्रेश्वरी ७ शिवदूती ८ त्वरिता ९ कुलसुन्दरी १० नित्या ११ नीलपताका १२ विजया १३ सर्वमङ्गला १४ ज्वालामालिनी १५ चित्रा ॥ ह्रीं श्रीं अं कामेश्वरिनित्याश्रीपादुका पूजयामि तर्पयामि नम इत्येव वामावर्तेन सपूजयेत् ।