भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 126, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 126

कृष्णपक्षे महेशानि पूजयेत्तुं त्रिमण्डलम् ॥ ५० ॥ विचित्राया वरारोहे यावत् कामेश्वरी भवेत् ⁠। पूजनीया विलोमेन वान्त्या(ः) तथैव पार्वति ॥ ५१ ॥ उभयोः पक्षयोरन्ते यथोक्तध्यानयोगतः । (स्व?स)र्गस्थां षोडशीं नित्यां महात्रिपुरसुन्दरीम् † ॥५२॥ तत्तद्विद्यास्तथा ध्यानं यन्त्राणि पूजनानि तु । होमान्यन्यानि सर्वाणि काम्यानि च वरानने ॥ ५३ ॥ पटलैः पञ्चसंख्यैस्तु पश्चात् वक्ष्याम्यहं शिवे । अत्राङ्गावृत्तिभूतानां शृणु पूजां वरानने ॥ ५४ ॥ ईश्वर उवाच तत्र तत्र महेशानि समावाह्य विधानतः । पूजयेत् साधको भक्त्या य(दो?थो)क्तक्रमवर्त्म(का?ना) ।५५। मूलाद्येनैव तत्राद्यां हंसेन पुटितेन तु । द्वितीयेन द्वितीयां च तृतीयेन तृतीयकाम् ॥ ५६ ॥ चतुर्थेन चतुर्थी च पञ्चमेनैव पञ्चमीम् । षष्ठेन तु तथा षष्ठीं सप्तमेन तु सप्तमीम् ॥ ५७ ॥ अष्टमेनाष्टमीं चैव नवमीं नवमेन तु । दशमीं दश(मी?मे)नैव एकादशीं तथैव हि ॥ ५८ ॥ एकादशाक्षरेणैव द्वादशीं द्वादशेन तु । त्रयोदशीं च तत्रैव त्रयोदशाक्षरेण तु ॥ ५६ ॥ चतुर्दशाक्षरेणैव यजेत् तत्र चतुर्दशीम् । पञ्चदशाक्षरेणैव यजेत् पञ्चदशीं ततः ॥ ६० ॥ १ ‘त्तु’ ख पाठः । † पूजयेदिति शेषः ।