गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 129, कुल 446 में से
संदर्भ में पढ़ेंचामुण्डा कृष्णवर्णा च शूलं डमरुकं तथा ॥ ८१ ॥ खङ्गं वेतालकं चैव दधाना दक्षिणैर्भुजैः । खेटकं चषकं चैव नागं घण्टां च वामकैः ॥ ८२ ॥ ब्रह्माणीप्रमुखाः ꕤ सर्व(१) विष्णुरेखा समाश्रिताः । ब्रह्माणी रक्तवर्णा च चतुर्भिः शोभिता मुखैः ॥ ८३ ॥ वरदाभयहस्ता च कुण्डिडेकाञ्चलसत्करा । माहेश्वरी श्वेतवर्णा त्रिनेत्रा शूलधारिणी ॥ ८४ ॥ कृपाणमे(नं?णं) परशुं दधाना पाणिभिः प्रिये । भेदमस्याः परं गुह्यं संक्षेपात् कथ्यतेऽधुना ॥ ८५ ॥ महालक्ष्मीस्तु पीताभा पद्मे दर्पणमेव च । मातुलुङ्गफलं चैव दधाना परमेश्वरी ॥ ८६ ॥ शिवरेखां समाश्रित्य संक्षोभग्यादिकाः § स्थिताः । रक्ताः संक्षोभणीमुख्याः स्वस्वमुद्राकरान्विताः ॥ ८७ ॥ एताः प्रकटयोगिन्यो ध्येयाः सर्वसमृद्धये । अणिमापुरतो देवि त्रिपुरा चक्रनायिका ॥ ८८ ॥ शुद्धस्फटिकसंकाशा मुक्कारत्नविभूषिताँ । पुस्तकं चाक्षमालां च कमलद्वयमुत्तमम् ॥ ८६ ॥ बिभ्रती सिद्धये ध्येया महापातकनाशिनी । त्रिवृत्तं‡ चन्द्रसूर्याग्निरूपं विद्धि पार्वति ॥ ६० ॥ १ 'स' क पाठः । २ 'ण्ड' क पाठ । ३ 'थिता' ख पाठ. । ४ 'ता.' क. पाठः । ꕤ ब्रह्माणी-माहेश्वरी कौमारी-वैष्णवी-वाराही-इन्द्राणी-चामुण्डा-महालक्ष्म्य इत्येता मध्यमाया विष्णुरेखायां पूज्याः । § सक्षोभग्यादयो मुद्रादेव्य प्रकटयोगिन्यस्त्रैलोक्यमो- हने चक्रे चतुरस्ररेखात्मके शिवरेखाया सपूज्या. । ‡ वृत्तत्रयं महेशानि न पूजाया निगद्यते (१।३६) इत्युक्त्या पूजाया नोपयुज्यते तत ।