गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 130, कुल 446 में से
संदर्भ में पढ़ेंसर्वाशापूरके चक्रे रविवेददलान्विते । ब्राह्मां चिन्तयेत्तत्र स्रवत्पीयूषवर्षिणीं ॥ ६१ ॥ कामाकर्षणिाद्यास्तु षोडशस्वरसंयुताः । सृणिपाशधराः सर्वा रूपेणापीह तत्समाः ॥ ६२ ॥ एतास्तु गुप्तयोगिन्यो * ध्येयाः सर्वसमृद्धिदाः । कामाकर्षिणिकाग्रे तु त्रिपुरेशी व्यवस्थिता ॥ ६३ ॥ त्रिपुरासदृशी ध्येया त्रिपुरेशा वरानने । अष्टपत्रं वरारोहे जपाकुसुमसंनिभम् ॥ ६४ ॥ सर्वसंक्षोभ(नं?णं) नाम सर्वकामफलप्रदम् । चिन्तयित्वा शिवं तत्र वर्गाष्टकसमन्विताः ॥ ६५ ॥ अनङ्गकुसुमाद्यास्तु स्मृता गुप्ततराश्च‡ ताः । सुन्दरीसदृशाः सर्वाः सर्वकामफलप्रदाः ॥ ६६ ॥ अनङ्गकुसुमाग्रे तु ध्येया त्रिपुरसुन्दरी । सर्वालङ्कारसंपन्ना पुस्तकं चाक्षमालिकाम् ॥ ६७ ॥ वराभयौ च दधती बन्धूककुसुमप्रभा । सर्वसौभाग्यदे चक्रे दाडिमीकुसुमप्रभे ॥ ६८ ॥ चतुर्दशारके देवि भास्करं परिचिन्तयेत् ।
१ ‘र्पिते’ ख पाठ. । २ ‘श्च’ क पाठ ।
- ता यथा कामबुद्धयहंकारशब्दस्पर्शरूपरसगन्धचित्तधैर्यस्मृतिनामबीजात्मामृतशरीराकर्ष- णयः इति गुप्तयोगिन्य सर्वाशापरिपूरक षोडशदलचक्रे सपूज्या. । ‡ यथा अनङ्गकुसुमानङ्गमेखलानङ्गमदनानङ्गमदनातुरानङ्गरेखानङ्गवेगिन्यनङ्गाङ्कुशानङ्गमालि- नीति एता गुप्ततरयोगिन्य. सर्वसङ्क्षोभकारकेऽष्टदलचक्रे सपूज्याः ।