गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
सर्वाशापूरके चक्रे रविवेददलान्विते । ब्राह्मां चिन्तयेत्तत्र स्रवत्पीयूषवर्षिणीं ॥ ६१ ॥ कामाकर्षणिाद्यास्तु षोडशस्वरसंयुताः । सृणिपाशधराः सर्वा रूपेणापीह तत्समाः ॥ ६२ ॥ एतास्तु गुप्तयोगिन्यो * ध्येयाः सर्वसमृद्धिदाः । कामाकर्षिणिकाग्रे तु त्रिपुरेशी व्यवस्थिता ॥ ६३ ॥ त्रिपुरासदृशी ध्येया त्रिपुरेशा वरानने । अष्टपत्रं वरारोहे जपाकुसुमसंनिभम् ॥ ६४ ॥ सर्वसंक्षोभ(नं?णं) नाम सर्वकामफलप्रदम् । चिन्तयित्वा शिवं तत्र वर्गाष्टकसमन्विताः ॥ ६५ ॥ अनङ्गकुसुमाद्यास्तु स्मृता गुप्ततराश्च‡ ताः । सुन्दरीसदृशाः सर्वाः सर्वकामफलप्रदाः ॥ ६६ ॥ अनङ्गकुसुमाग्रे तु ध्येया त्रिपुरसुन्दरी । सर्वालङ्कारसंपन्ना पुस्तकं चाक्षमालिकाम् ॥ ६७ ॥ वराभयौ च दधती बन्धूककुसुमप्रभा । सर्वसौभाग्यदे चक्रे दाडिमीकुसुमप्रभे ॥ ६८ ॥ चतुर्दशारके देवि भास्करं परिचिन्तयेत् ।
१ ‘र्पिते’ ख पाठ. । २ ‘श्च’ क पाठ ।
- ता यथा कामबुद्धयहंकारशब्दस्पर्शरूपरसगन्धचित्तधैर्यस्मृतिनामबीजात्मामृतशरीराकर्ष- णयः इति गुप्तयोगिन्य सर्वाशापरिपूरक षोडशदलचक्रे सपूज्या. । ‡ यथा अनङ्गकुसुमानङ्गमेखलानङ्गमदनानङ्गमदनातुरानङ्गरेखानङ्गवेगिन्यनङ्गाङ्कुशानङ्गमालि- नीति एता गुप्ततरयोगिन्य. सर्वसङ्क्षोभकारकेऽष्टदलचक्रे सपूज्याः ।
२. पटल ११-२०: यन्त्र-निर्माण, न्यास-पद्धति एवं पञ्चाङ्ग-साधन
५०. गन्धर्वतन्त्रे । सर्वसंक्षोभणीमुख्याः ¹ संप्रदायाः स्मृता इमाः ॥ ९९ ॥ सर्वसंक्षोभणीशक्तेः पुरस्त्रिपुरवासिनी । सुन्दर्याः सदृशी ध्येया सर्वकामफलप्रदा ॥ १०० ॥ सर्वार्थसाधके चक्रे सर्वरक्षाकरे तथा । बाह्यारदशकोणे च जपाकुसुमसंनिभे ॥ १०१ ॥ नारायणीं प्रपूज्याथ बाह्यारदशके ततः । सर्वसिद्धिप्रदामुख्याः कुलकौला ‡ इमाः स्मृताः ॥१०२॥ सर्वसिद्धिप्रदाग्रे तु त्रिपुरो²श्रीर्व्यवस्थिता । उदयद्भानुसहस्राभा दिव्यालंकारभूषिता ॥ १०३ ॥ पुस्तकं जपमालां च दधती वरदाभये । अन्तर्दशारचक्रे च पूज्याः सर्वसमृद्धिदाः ॥ १०४ ॥ तथा निग[र्व?र्भ]योगिन्यः सर्वज्ञाँ³प्रमुखाः ❊ प्रिये । सर्वज्ञापुरतो देवि स्थिता त्रिपुरमालिनी ॥ १०५ ॥ इन्द्रगोपप्रभा देवी पाशाङ्कुशकपालिनी । महाभीति[ह?क]रा सम्यक् साधकानां क्षणादियम् ॥ १०६॥ १ 'क्ति' क पाठ । २ 'र' ख पाठ. । ३ 'ज्ञा' क पाठः । † सर्वसंक्षोभिणी-सर्वविद्राविणी-सर्वाकर्षिणी-सर्वाह्लादिनी-सर्वमोहिनी-सर्वस्तम्भिनी- सर्वजृम्भिणी-सर्ववशङ्करी-सर्वरञ्जनी-सर्वोन्मादिनी-सर्वार्थसाधनी-सर्वसम्पत्पूरणी-सर्वमन्त्रम - यी-सर्वद्वन्द्वक्षयकरीत्येता संप्रदाययोगिन्य सर्वसौभाग्यदायके चतुर्दशारचक्रे पूज्या. । ‡ सर्वाद्य सिद्धिप्रदा-सपक्षप्रदा-प्रियकरी-मङ्गलकारिणी-कामप्रदा-दु खविमोचिनी-मृत्यु- प्रशमनी-विघ्नविनाशिनी-अङ्गसुन्दरी-सौभाग्यदायिनी-इत्येता कुलकौलयोगिन्यः सर्वार्थसा- धके बर्हिर्दशारचक्रे पूज्या । ❊ सर्वज्ञा-सर्वशक्ति-सर्वैश्वर्यप्रदा-सर्वज्ञानमयी-सर्वव्याधिविनाशिनी-सर्वाधारस्वरूपा-स- र्वपापहरा-सर्वानन्दमयी-सर्वरक्षास्वरूपिणी-सर्वेप्सितफलप्रदा-इत्येता निगर्भयोगिन्यः सर्व- रक्षाकरेऽन्तर्दशारचक्रे पूजनीया ।
सर्वरोगहरे चक्रे बालार्ककिरणारुणे । वशिनीप्रमुखास्तत्र रहस्ययोगिनीर्यजेत् ॥ १०७॥ वशिनीप्रमुखा*रक्ता वराभयकरान्विताः । पुस्तकं जपमालां च दधानाः परमेश्वरि ॥ १०८॥ वशिनीपुरतो देवि सर्वसिद्धिप्रदायिनीम् । तथा त्रिपुरासिद्धां च ध्यायेद्विषविनाशिनीम् ॥ १०९॥ त्रिकोणाग्रविभागस्य दक्षिणे वामके प्रिये । चतुष्पथसमायुक्ते बाणचापौ प्रपूजयेत् ॥ ११०॥ त्रिकोणास्योर्ध्वभागस्य वामदक्षिणयोस्तथा । षडध्वरूपयोर्देवि पाशाङ्कुशौ व्यवस्थितौ ॥ १११ ॥ सर्वसिद्धिप्रदे चक्रे त्रिकोणे परमेश्वरि । उद्यत्सूर्यसहस्राभे बन्धूककुसुमप्रभे ॥ ११२॥ अतिरहस्ययोगिन्यः संस्थिता वीरवन्दिते । अग्रकोणे अग्निचक्रे कामरूपे वरानने ॥ ११३॥ कामेश्वरी त्रिनेत्रा च तरुणारुणविग्रहा । चषकं वरदानं च पाशं चाङ्कुशमेव च ॥ ११४॥ दधतीं परमेशानि ध्येया रुद्रात्मशक्तिका । वामकोणे त्रिकोणस्य सूर्यचक्रे महेश्वरि ॥ ११५॥ जालन्धरे महापीठे वज्रेश्वरी समीरिता । त्रिनेत्रा पूर्णचन्द्रास्या बन्धूककुसुमप्रभा ॥ ११६॥ १ 'लक' क पाठ । २ 'स' क. पाठ. ।
- वशिनी-कामेश्वरी-मोदिनी-विमला-अरुणा-जयिनी-सर्वेश्वरी-कौलिनी-वाग्देवता इत्येता रहस्ययोगिन्यः सर्वरोगहरे वसुकोणचक्रे सपूज्या ।
पाशाङ्कुशौ शरांश्चापं चषकं मातुलुङ्गकम् । दधती चारुरूपा सा ध्येया विष्ण्वात्मशक्तिका ॥ ११७ ॥ दक्षकोणे त्रिकोणस्य (लो१सो)मचक्रे वरानने । पूर्णगिर्यालये देवि कथिता भगमालिनी ॥ ११८ ॥ त्रिनेत्रा तरुणेन्दुमस्ता सिन्दूरारुणविग्रहा । पुस्तकं जपमालां च पाशाङ्कुशकमेव च ॥ ११९ ॥ दधती परमेशानी ध्येया ब्रह्मात्मशक्तिका । कामेश्वरी पुरोभागे त्रिपुरा(घ्ना?म्बा) व्यवस्थिता ॥ १२० ॥ मालिनीसदृशी ध्येया सर्वकामफलप्रदा । अथवा रश्मयः सर्वा देवीरूपेण चिन्तयेत् ॥ १२१ ॥ नवावरणशक्तीनां ध्यानं देव्याः समं यतः । निःसरन्ति यथा नित्यं सूर्यबिम्बान्मरीचयः ॥ १२२ ॥ देव्यस्तथा समुत्पन्ना महादेव्याः शरीरतः । उड्ड्याणपीठके देवि ब्रह्मचक्रे वरानने ॥ १२३ ॥ परापररहस्याख्या देवी ब्रह्मस्वरूपिणी । चक्रेशीमपि तामेव पूजयेत् साधकोत्तमः ॥ १२४ ॥ स्थितिक्रमेण पूजेयं यन्त्रोद्धारक्रमेण तु । सृष्टिक्रमं महद्गुह्यं पूजनं परमेश्वरि ॥ १२५ ॥ पार्वत्युवाच चक्रमण्डलमाख्यातं न पूजा तत्र मण्डले । इदानीं कथयेशान पूजाक्रममनुत्तमम् ॥ १२६ ॥ १ ‘स’ क पाठ ।
पञ्चमः पटलः । ५३ ईश्वर उवाच । शृणु देवि प्रवक्ष्यामि पूजाक्रममनुत्तमम् । यस्य प्रबोधमात्रेण जीवन्मुक्तः प्रमोद्ते ॥ १२७ ॥ देव्या नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता । १परा चैवापरा देवि तृतीया च परापरा ॥ १२८ ॥ चक्रमध्ये समावाह्य पू(ज?ज्य)ते द्रव्यविस्तरैः । प्रथमा सा समाख्याता मता पुरन्दरादिभिः ॥ १२९ ॥ २मृ(दा?द्वा)सने समासीनः खगसंयमने रतः । समकायाशिरोग्रीवो नासालोकनतत्परः ॥ १३० ॥ विकल्परूपसंजल्पविमुखो भावतत्परः । महापद्मवनान्तःस्थां परमानन्दरूपिणीम् ॥ १३१ ॥ आप्यायितजगद्रूपां परमामृतवर्षिणीम् । तत्त्वज्ञानमये चक्रे परमात्मस्वरूपिणीम् ॥ १३२ ॥ अर्धमात्रा योनिरूपां बिन्दुत्रिवलयात्मिकाम् । परमानन्दपुष्पेण पूजयेदात्मरूपिणीम् ॥ १३३ ॥ इन्द्रियप्रीणनैर्द्रव्यैर्विहितं स्वात्मपूजनम् । उत्तमैयं द्वितीया सा मया निष्पाद्यते सदा ॥ १३४ ॥ परापरा समाख्याता उभयं यत्र विद्यते । देवकीसूनुना चेयं निष्पाद्यते सदा प्रिये ॥ १३५ ॥ इति श्रीपार्वतीश्वरसंवादे गन्धर्वतन्त्रे यन्त्रोद्धारावरणशक्त्यर्चनं नाम पञ्चमः पटलः ॥ ५ ॥
१ 'अपरा च' क पाठ । २ 'द्वं' क पाठ ।
षष्ठः पटलः । —*— पार्वत्युवाच । देव्याः पूजा समाख्याता तृतीया या महेश्वर । कथय तां सुरश्रेष्ठ विस्तरेणाधुना प्रभो ॥ १ ॥ ज्ञानेन कर्मणा चेह देहशुद्धिर्द्विधा भवेत् । ज्ञानशुद्धिस्त्वया प्रोक्ता कर्मशुद्धिर्न दर्शिता ॥ २ ॥ वि(न्मू?ण्मू)त्रपिच्छलो देहः कथं देवमयो भवेत् । तन्मे वद महादेव प्रसादसुमुख प्रभो ॥ ३ ॥ ईश्वर उवाच ज्ञानेन कर्मणा वापि सिद्धिर्भवति नान्यथा । ज्ञानयोगश्च वक्तव्यः कर्मयोगं शृणु प्रिये ॥ ४ ॥ ब्राह्म्ये मुहूर्ते उत्थाय साधकः स्थिरमानसः । पद्मासनसमासीनः प्राणायामपुरःसरः ॥ ५ ॥ ब्रह्मरन्ध्रैस्थिते पद्मे सहस्रदलशोभिते । विमले पूर्णचन्द्रस्य मण्डले चिन्तयेद् गुरुम् ॥ ६ ॥ शुद्धस्फटिकसंकाशं श्वेताभरणभूषितम् । तादृक्प्रसूनमाल्यादिविभूषिततंनुं तथा ॥ ७ ॥ पद्मासनसमासीनं सर्वयोगिनिषेवितम् । वराभयकरं शान्तं द्विनेत्रं करुणामयम् ॥ ८ ॥ वामोरुगतया शक्त्या रक्तया वामपाणिना । धारयन्त्योत्पलं दक्षहस्तेनालिङ्गितं विभुम् ॥ ९ ॥ ———————————————————————————————— १ 'ता कथय' क पाठ । २ 'स्ता' क पाठ. । ३ 'न्ध्रे' ख. पाठः । ४ 'त' क. पाठः ।
षष्ठः पटलः । .५५ परमानन्दसंदोहसान्द्रमानसभीश्वरम् । आनन्दसान्द्ररक्ताक्षं स्मरेत् स्मितमुखाम्बुजम् ॥ १० ॥ ꕤ बालाद्यं भुवनेशानी रमा चैवाथ खेचरी । शिवचन्द्रौ मातृकान्तं कालशक्रा(द्यु?म्बु)वह्वयः ॥ ११ ॥ वायुश्च वामकर्णेन योजिता बिन्दुनादिनः । [च?व]क्रं कृत्वादिसं तेषु कर्णे वामाक्षि योजयेत् ॥१२॥ शिवचन्द्रौ त्रिशूलाढ्यौ बिन्दुना परिमण्डितौ । चन्द्रशिवौ त्रिशूलाढ्यौ [ख?स]र्गवन्तौ महेश्वरि ॥ १३ ॥ तस्मात् स्वगुरुनामान्ते आनन्दनाथ चालिखेत् । तथा शक्तिपदान्ते वै अम्बापदमतो लिखेत् ॥ १४ ॥ पादुकां पूजयामीति विधिना परिपूजयेत् । लं पृथिव्यात्मना ब्रह्मणा गन्धं कल्पयामि गन्धतन्मात्रात्मने घ्रा[ण?णे]न्द्रियाय] गन्धं गृहाण स्वाहा , अथाङ्गुष्ठकनिष्ठाभ्यां योजयेद्गन्धमुत्तमम् ॥ १५ ॥ हं आकाशात्मना सदाशिवेन पुष्पं कल्पयामि शब्दतन्मात्रात्मने श्रोत्रेन्दि्र(य?याय) पुष्पं गृहाण स्वाहा , अङ्गुष्ठतर्जनीयोगं पुष्पदानं तथैव हि । यं वाय्वात्मना ईश्वरेण धूपं कल्पयामि स्पर्शतन्मात्रात्मने 'त्वगिन्द्रियाय स्पर्शं गृहाण स्वाहा , अङ्गुष्ठमध्यमायोगं धूपदानं तथैव हि ॥ १६ ॥ १ 'तत्रोप' क पाठ । ꕤ बालाद्यं ऐ भुवनेशानी ह्री रमा श्री खेचरी हसख्फ्रे शिवो ह चन्द्रा. स मातृकान्तं क्ष कालो म शक्रो ल अम्बु व वह्निः र वायु. य वामकर्ण. ऊ । वक्रमिति यथा सह्ख्फ्रे सहक्षमलवरयीमिति । शिवचन्द्राविति ह्सौ. चन्द्रशिवौ स्हौ. ।
[वं?रं] वह्न्यात्मना रुद्रेण दीपं कल्पयामि रूपतन्मात्रात्मने चक्षुरिन्द्रियाय रूपं गृहाण स्वाहा., अङ्गुष्ठाभ्यां महेशानि दीपं दद्यात् समाहितः । वं अमृतात्मना विष्णुना नैवेद्यं कल्पयामि रसतन्मात्रात्मने जिह्वेन्द्रियाय रसं गृहाण स्वाहा, अङ्गुष्ठानामिकायोगं नैवेद्यं तत्प्रतिष्ठितम् ॥ १७ ॥ एवं कुलगुरुं देवि पूजयित्वा विधानतः । योनिमुद्रां प्रदर्श्याथ प्रणमेत् सिद्धिहेतवे ॥ १८ ॥ नमस्ते भगवन्नाथ शिवाय गुरुरूपिणे । विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥ १६ ॥ नवाय नवरूपाय परमात्मैकरूपिणे । सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ॥ २० ॥ स्वतन्त्राय दया[त्?क्लृ]प्तविग्रहाय शिवात्मने । परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥ १२ ॥ विवेकिनां विवेकार्थे विम[र्षा?र्शा]य विम[र्ष?र्शि]नाम् प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥ २२ ॥ पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः । सदा सच्चित्स्वरूपेण विधेहि भवदासनम् ॥ २३ ॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २४ ॥ नमोऽस्तु गुरवे तुभ्यं ब्रह्मविष्णुशिवात्मने ।
षष्ठः पटलः । ५७ अविद्याग्रस्तसंसारसागरोत्तारहेतवे ॥ २५॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ज्ञानं गुरुरेव परं तपः ॥ २६॥ अतः सर्वत्र देवेशि गुरुपूजा गरीयसी । अन्यदेवसपर्या वा चान्यदेवस्य कीर्तनम् ॥ २७॥ गुरुदेवं विना देवि तदग्रे क्रियते यदि । तदा नरकमाप्नोति सत्यमेतद्वदाम्यहम् ॥ २८॥ पूजिते गुरुपादे वै सर्व[देवः?दैव]सुखी भवेत् । सर्वेषां मन्त्रतन्त्राणां पितासौ यः सदाशिवः ॥ २६॥ यस्य भक्तिर्गुरौ नित्यं वर्तते देववत् प्रिये । तस्य सर्वार्थसिद्धिः स्यान्नान्यथा खलु पार्वति ॥ ३०॥ गुरुपादरजो मूर्ध्नि ध्यात्वा कर्म समारभेत् । ब्रह्मरन्ध्रे सहस्रारे कर्पूरधवलो गुरुः ॥ ३१॥ वराभयकरो नित्यो ब्रह्मरूपी सदानघः । जागर्ति परमेशानि निजस्थानप्रकाशकः ॥ ३२॥ कुलनाथं परित्यज्य ये शाक्ताः प[रि?र]सेविनः । तेषां•दीक्षा च.यागश्च ह्यभिचाराय कल्पते ॥ ३३॥ तस्मात् सर्वप्रयत्नेन कुलीनं गुरुमाश्रयेत् । कुलीनः सर्वविद्यानामधिकारीति गीयते ॥ ३४॥ दीक्षाप्रभुः स एवात्र सर्वतन्त्रेषु नापरः । गुरुमण्डलपूजां तु कुर्यात् सप्तसु पर्वसु ॥ ३५॥
१ 'ल्प्य' क पाठ. ।
५८ - गन्धर्वतन्त्रे । देव्युवाच विना¹ योगं न सिध्येत² कुण्डलीषट्क्रमः प्रभो । मूलपद्मे कुण्डलिनी यावन्निद्रायिता प्रभो ॥ ३६ ॥ तावन्न किंचित् सिध्येत मन्त्रयन्त्रार्चनादिकम् । जागर्ति यदि सा देवी बहुभिः पुण्यसंचयैः ॥ ३७ ॥ तदा प्रसादमायान्ति मन्त्रयन्त्रार्चनादयः । शिववद्विहरेल्लोके अष्टैश्वर्यसमन्वितः ॥ ३८ ॥ योगयोगाद् भवेन्मुक्तिर्मन्त्रसिद्धिरखण्डिता । सिद्धे मनौ परावाप्तिरिति शास्त्रार्थनिर्णयः ॥ ३६ ॥ युक्तात्मा येन विहरेत् स्वर्गे मर्त्ये रसातले । जीवन्मुक्तश्च देहान्ते परं निर्वाणमाप्नुयात् ॥ ४० ॥ तत् कार्त्स्न्येन परं योगं कथयस्व मयीश्वर³ । ईश्वर उवाच कथयामि तव स्नेहाद् योगयोग्यासि पार्वति ॥ ४१ ॥ संसारोत्तारणं मुक्तिर्योगशब्देन कथ्यते । योगो हि ललिता देवी निश्चितं विद्धि पार्वति ॥ ४२ ॥ न योगो नभसः पृष्ठे न भूमौ न रसातले । ऐक्यं जीवात्मनोश्चा⁴हुर्योगं योगविशारदाः ॥ ४३ ॥ कामक्रोधलोभमोहमदमात्सर्यसंज्ञका⁵ः । तत्समूहाः षडाख्याता योगविघ्नकरा इमे ॥ ४४ ॥ यो[गङ्गे?गाङ्गै]रेभिर्जित्त्वो तान्योगिनो योगमाप्नुयुः । १ 'द्धये' क पाठ । २ 'द्धये' क पाठ । ३ 'हे' ख पाठः । ४ 'नश्चा' क पाठ. । ५ 'क.' क पाठ. ।
षष्ठः पटलः । ५६ यमं नियममासनप्राणायामौ ततः परम् ॥ ४५ ॥ प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना । अष्टाङ्गान्याहुरेतानि योगिनो योगसाधने ॥ ४६ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् । क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥ ४७ ॥ तपः संतोषमास्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ ४८ ॥ दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः । पद्मासनं स्वस्तिकाख्यं भद्रं वज्रासनं तथा ॥ ४६ ॥ वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् । ऊर्वोरुपरि विन्यस्य सम्यक् पादतले उभे ॥ ५० ॥ अङ्गुष्ठौ च निबध्नीयाद् हस्ताभ्यां व्युत्क्रमात् ततः । पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ ५१ ॥ जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे । ऋजुकायो वसेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ ५२ ॥ सीर्वैंन्याः पार्श्वयोर्न्यस्येद् गुल्फयुग्मं सुनिश्चितम् । वृषणांधः पादपार्ष्णिं पाणिभ्यां परिबन्धयेत् ॥ ५३ ॥ भद्रासनं समुद्दिष्टं योगिभिः परिकीर्तितम् । ऊर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुली ॥५४॥ करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् । एकं पादमधः कृत्वा विन्यस्योरावथेतरम् ॥ ५५ ॥ १ 'द्वं' क. पाठ. । २ 'धृतिमित्ताहारशौच' क पाठ । ३ 'नु' पाठः । ४ 'सेम' क पाठः । ५ 'उ' ख. पाठः । ६ 'लीः' ख. पाठ । ७ 'च' क. पाठः ।
६० • गन्धर्वतन्त्रे । ऋजुकायो वसेद्योगी वीरासनमितीरितम् । इडयां कर्षयेद्वायुं बाह्यं षोडशमात्रया ॥ ५६ ॥ धारयेत् पूरितं योगी चतुःषष्ट्या च मात्रयाꕤ । सुषुम्नामध्यगं सम्यग् द्वात्रिंशन्मात्रया शनैः ॥ ५७ ॥ नाड्या पिङ्गलया चैवं रेचयेद्योगवित्तमः । प्राणायाममिमं प्राहुर्योगशास्त्रविशारदाः ॥ ५८ ॥ भूयोभूयः क्रमात्तस्य व्यत्यासेन समाचरेत् । मात्रावृद्धिक्रमेणैव सम्यग् द्वादश षोडश ॥ ५६ ॥ जपध्यानादिभिर्युक्तं सगर्भं तद्विदुर्बुधाः । त[दु?द]पेतं विगर्भं च प्राणायामं परं विदुः ॥ ६० ॥ क्रमादभ्यसतः पुंसो देहे स्वेदोद्गमोऽधमः । मध्यमः क[ल्प?म्प]संयुक्तो भूमित्यागः परो मतः ॥ ६१ ॥ उत्तमस्य गुणावाप्तिर्यच्छीलनकमिष्यते । इन्द्रियाणां विचरतां विषयेषु निराकुलम् ॥ ६२ ॥ बलादाहरणं तेभ्यः प्रत्याहारोऽयमीरितः अङ्गुष्ठगुल्फजानुषु सी[म?व]नीलिङ्गनाभिषु ॥ ६३ ॥ हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि ।१ भ्रूमध्ये स्तनके मूर्ध्नि द्वादशान्ते यथाविधि ॥ ६४ ॥ धारणं प्राणमरुतोर्धारणेति निगद्यते । समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ ६५ ॥ १ 'मण' क पाठ । २ 'से' ख पाठ । ꕤ मात्रालक्षण यथाह नारद - कालेन यावताऽभीक्ष्णो हस्त स्व जानुमण्डलम् । पर्येति मात्रा तुल्या स्यात् स्वया श्वासैकमात्रयेति ॥ तथा फेत्कारिणीतन्त्रे—जानु प्रदक्षि- णीकृत्य न द्रुत न विलम्बितम् । क्रियते चाङ्गुलिस्फोट सा मात्रा परिकीर्तितेति ॥
षष्ठः पटलः । ६१ आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते । समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ ६६^१॥ समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् । इति ते कथितं देवि कामादिषट्कनाशनम् ॥ ६७ ॥ दुर्लभं विषयासक्तैः सुलभं संयमात्मनाम् । समाधिः संविदुत्पत्तिः परजीवैकतां प्रति ॥ ६८ ॥ यदि जीवः पराद्भिन्नः कार्य्यतामेति सुव्रते । [स्व?अ]चित्वं च प्रसज्येते घटवत् परमेश्वरि ॥ ६६ ॥ विनाशित्वं भयं चैव द्वि[त?ती]या[वि?दि]ति ते श्रुतिः । नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ॥ ७० ॥ एकः सन् भिद्यते भ्रान्त्या मायया न स्वरूपतः । तस्माद् द्वैतं न मे चास्ति न प्रपञ्चो न सं[स्मृ?सृ]तिः ।७१। यथाकाशो घटाकाशो महाकाश इतीरितः । तथा भ्रान्तिर्द्विधा प्रोक्ता ह्यात्मने^३ जीवेश्वरात्मना ॥ ७२ ॥ नाहं देहो नच प्राणो नेन्द्रियाणि तथैव च । न मनो नैव बुद्धिश्च नैव चित्तमहंकृतिः ॥ ७३ ॥ नाहं पृथ्वी न सलिलं नच वह्निस्तथानिलः । नचाकाशो न शब्दश्च नच स्पर्शस्तथा रसः ॥ ७४ ॥ नहि गन्धो न रूपं च न मायाहं न संसृतिः । सदा साक्षिस্বরূপत्वाद् ब्रह्म चैवास्मि केवलः ॥ ७५ ॥ सोऽहं ब्रह्म न संसारी न मत्तोऽन्यत् कदाचन । १ 'ज्यैव' ख. पाठः । २ 'स्म' क. पाठः । ३ 'प्याह्वा' क. ख पाठः ।
६२. गन्धर्वतन्त्रे । इति विद्यात् स्वमात्मानं समाधिः परिकीर्तितः ॥ ७६ ॥ समाधौ स्वस्वरूपोऽसौ तुरीयस्वर एव हि । तुरीयांशः पराशक्तिर्बिन्द्वात्मा ब्रह्म केवलम् ॥ ७७ ॥ प्रज्ञात्मानं वदन्त्येके एकेऽपि ब्रह्म केवलम् । जीवमीश्वरभावेन विद्यात् सोऽहमिति ध्रुवम् ॥ ७८ ॥ यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः । समुद्रे लीयते तद्वज्जगदात्मनि लीयते ॥ ७९ ॥ यस्यैवं परमात्मा [स?स्वा]पृथग्भूतः प्रकाशितः । स याति परं भावं स्वयं साक्षात् परामृतम् ॥ ८० ॥ यदा मनसि चैतन्यं भाति सर्वात्मकं सदा । योगिनोऽव्यवधानेन तदा संपद्यते स्वयं ॥ ८१ ॥ यदा भूतानि सर्वाणि स्वात्मन्येवाभिपश्यति । सर्वभूतेषु चात्मानं ब्रह्म संपद्यते [स?त]दा ॥ ८२ ॥ यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणासौ तदा भवति केवलः ॥ ८३ ॥ यदौ जन्मजरादुःखव्याधीनामेव भेषजम् । केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा <sup>१</sup>शिवः ॥ ८४ ॥ तस्माद्विज्ञानतो मुक्तिर्नान्यथा भवकोटिभिः । मन्त्रौषधिबलैर्यद्वज्जीर्यते भक्षितं विषम् ॥ ८५ ॥ तद्वत् सर्वाणि कर्माणि जीर्यन्ति ज्ञानिनः क्षणात् । देहाभिमाने गलिते विदिते परमात्मनि ॥ ८६ ॥ १ 'प्रिये' ख पाठ । २ 'सदा' क. पाठ. ।
षष्ठः पटलः । ६३ यत्र यत्र मनो याति तत्र तत्र समाधयः । अहं ब्रह्मे नचान्योऽस्मि मुक्तोऽहमिति भावयेत् ॥८७॥ सच्चिदानन्दरूपोऽहं नित्यं मुक्तस्वभाववान् । एवं समाधियुक्तो यः समाधये स कल्पते ॥ ८८ ॥ सदाशिवोऽहमित्युक्त्वा स्वेच्छया विहरेद्यतिः । लिप्यते न स पापेन बध्यते नच कर्मणा ॥ ८६ ॥ यथाग्निविद्रुतं स्वर्णं मालिन्यं दहति क्षणात् । तथा ब्रह्मार्पितात्मासौ सर्वकर्माणि दह्यति ॥ ६०॥ आत्मस्थां देवतां त्यक्त्वा बहिर्देवान्विचि[न्व?नु]ने । करस्थं कौस्तुभं त्यक्त्वा भ्रमते काचतृष्णया ॥ ६१॥ न योगेन न यन्त्रेण न मन्त्रेण विना हि सः [?] । द्वयोरभ्यासयोगेन ब्रह्म संसिद्धिकारकम् ॥ ६२॥ तमःपरिवृते गेहे घटो दीपेन दृश्यते । एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः ॥ ६३ ॥ एतत्ते कथितं देवि ब्रह्मज्ञानमिदं महत् । विज्ञाय गुरुतो जप्त्वा संसारसागरं तरेत् ॥ ६४ ॥ यत्र यत्र मृतश्चायं गङ्गायां श्वपचालये । ब्रह्मविद् ब्रह्मभूयाय कल्पते नान्यथा प्रिये ॥ ६५ ॥ विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं प्रिये । चन्द्रसूर्याग्नितोजोभिर्जीवब्रह्मैकरूपकम् ॥ ६६ ॥ तिस्रः कोट्यस्तदर्धेनै शरीरे नाडयो मताँः । १ 'देवि' ख पाठ । २ 'हत्य' क पाठः । ३ 'स्व' क पाठ । ४ 'हृद्य' क, पाठ । ५ दै' क पाठ । ६ 'त ' क पाठ. ।
६४ गन्धर्वतन्त्रे । तासु मुख्या दश प्रोक्तास्तासु तिस्रो व्यवस्थिताः ॥६७॥ प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्निरूपिणी । शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा ॥ ६८ ॥ इडा वामे स्थिता नाडी शुक्ला तु चन्द्ररूपिणी । पिङ्गलाख्या च या दक्षे पुंरूपा सूर्यविग्रहा ॥ ६९ ॥ दाडिमीकुसुमप्रख्या विषारूपा चापरा मता । मेरुमध्यस्थिता या तु मूलादाब्रह्मरन्ध्रगा ॥ १०० ॥ सर्वतेजोमयी सा तु सुषुम्ना बह्निरूपिणी । तस्या मध्ये विचित्राख्या अमृतस्त्राविणी शुभा ॥ १०१ ॥ सर्वदेवमयी सा तु योगिनां हृदयङ्गमा । विसर्गाद्विन्दुपर्यन्तं व्याप्य तिष्ठति तत्त्वतः ॥ १०२ ॥ मूलाधारे त्रिपुराख्ये इच्छाज्ञानक्रियात्मके । मध्ये स्वयंभूलिङ्गं तु कोटिसूर्यसमप्रभम् ॥ १०३ ॥ तदूर्ध्वे तत्तुरोयं तु ध्यायेद्वन्धूकसंनिभम् । तदूर्ध्वे तच्छिखाकारा कुण्डली रक्तविग्रहा ॥ १०४ ॥ सा एव हि परा सूक्ष्मा महात्रिपुरसुन्दरी । चैतन्यं सर्वभूतानां शब्दब्रह्म यदुच्यते ॥ १०५ ॥ तत्प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् । सर्वतेजोमयं तत्तु सच्चिदानन्दमव्ययम् ॥ १०६ ॥ तद्बाह्ये हेमवर्णाभं [र?व]सवर्णा ॐ चतुर्दलम् । द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥ १०७ ॥ १ 'म्णा' क. पाठ. । २ 'र्दे' क पाठ. ३ 'द्धैं' क पाठ. ।
- बादिसान्तवर्णोपेतमित्यर्थः ।
षष्ठः पटलः । ०६५ तदूर्ध्वेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् । बादिलान्तषडर्णेन युक्तं स्वाधिष्ठानसंज्ञकम् ॥ १०८ ॥ मूलमाधारषट्कानां मूलाधारं ततो विदुः । स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ १०६ ॥ तदूर्ध्वे नाभिदेशे तु मणिपूरं महत् पुरम् । हेमाभं वैद्युताभं च बहुतेजोमयं तथा ॥ ११० ॥ मणिवद्भिन्ं तत्पूरं मणिपूरं ततो विदुः । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ १११ ॥ विष्णुनाधिष्ठितं पद्मं विश्वालोकनकारणम् । तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसंनिभम् ॥ ११२ ॥ कादिठान्ताक्षरैरर्कपत्रैश्च समलंकृतम् । तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् ॥ ११३ ॥ शब्दब्रह्ममयः शब्दोऽनाहतस्तत्र दृश्यते । अनाहताख्यं तत्पद्मं योगिभिः परिकीर्त्यते ॥ ११४ ॥ आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् । तदूर्ध्वे तु विशुद्धाख्यं दलैः षोडशभिर्युतम् ॥ ११५ ॥ स्वरैः षोडशकैर्युक्तं धूम्रवर्णं महत्प्रभम् । विशुद्धिं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ ११६ ॥ विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् । आज्ञाचक्रं तदूर्ध्वे तु आत्मनाधिष्ठितं परम् ॥ ११७ ॥ १ ' नून ' ख पाठ । २ ' क्त ' क पाठ । ३ ' तत्पुर मणिवद्भिज्ञ ' ख पाठः । ४ ' न्तदलै ' क पाठ । ५ ' ब्दो ' क पाठः ।
६६ • गन्धर्वतन्त्रे । हक्षादिद्विदलं पद्मं चन्द्रेणाधिष्ठितं तु तत् । आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्तितम् ॥ ११८ ॥ कैलासाख्यं तदूर्ध्वे तु बोधिनी तु तदूर्ध्वतः । सहस्राराम्बुजं देवि बिन्दुस्थानं तदूर्ध्वतः ॥ ११९ ॥ आदौ पूरकयोगेन स्वाधारे योजयेन्मनः । गुदमेढ्रान्तरे शक्तिं तामाकुञ्च्य प्रबोधयेत् ॥ १२० ॥ लिङ्गभेदक्रमेणैव बिन्दुस्थानं समानयेत् । शंभुना तां परां शक्तिमेकी(भाव?भूतां)विचिन्तयेत् ॥१२१॥ तदुद्भवमृतं वक्त्रद्रुतं लाक्षारसोपमम् । पाययित्वा च तां शक्तिं परोक्षां योगसिद्धिदाम् ॥१२२॥ षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया । आनयेत्तेन मार्गेण मूलाधारं पुनः सुधीः ॥ १२३ ॥ यातायातकमेणैव तत्र कुर्यान्मनोलयम् । एवमभ्यस्यमानं तु अहन्यहनि पार्वति ॥ १२४ ॥ जरामरणादुःखायैर्मुच्यते भवबन्धनैः । इत्युक्तं परमं योगं योनिमुद्राप्रबन्धनम् ॥ १२५ ॥ अथापरं प्रवक्ष्यामि समाधिं भवनाशनम् । अथवा परमेशानि यथोक्तध्यानयोगतः ॥ १२६ ॥ हृत्पद्मकर्णीकामध्ये ध्यायेद्देवीमनन्यधीः । त्रिपुरात्मकमात्मानं भावयेन्न्यस्तविग्रहः ॥ १२७ ॥ ऐक्यं संभावयेन्नित्यं स्वगुरुदेवतात्मनाम् । १ 'दे' क पाठ । २ 'लि' ख पाठ' ।
षष्ठः पटलः । -६७ अहं देवो नचान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ॥१२८॥ सच्चिदानन्दरूपोऽहं शुद्धबुद्धेस्वभाववान् । प्रणवं पूर्वमुद्धृत्य तदिति परतस्ततः ॥ १२६ ॥ सदिति तु समालोच्यं कर्म कुर्याद्विचक्षणः । स्मरणात् कर्मणामाद्ये ब्रह्मभूयाय कल्पते ॥ १३० ॥ सर्वमङ्गलसंपन्नो बहिर्निर्गत्य साधकः । त्य(क्र?क्त्वा)मूत्रपुरीषे च करपादौ विशोधयेत् ॥ १३१ ॥ मुखं प्रक्षाल्य देवेशि नासारन्ध्रद्वयं ततः । नेत्राञ्जनं विधायैव शुद्धस्थानं समाश्रयेत् ॥ १३२ ॥ नेत्राञ्जनमकृत्वैव यः पश्येत् सौरमण्डलम् । जन्माजितफलं नश्येत् का कथा तस्य दुर्मतेः ॥१३३॥ त्रितत्त्वेन त्रि(धा?रा)चम्य दन्तधावनमाचरेत् । दन्तकाष्ठम(था?खा)दित्वा पूजयेद्यस्तु देवताम् ॥ १३४ ॥ तत्पूजा विफला देवि मृते च नरकं व्रजेत् । क्लीमात्मकं कामदेवं सर्वान्ते जनमाँलिखेत् ॥ १३५ ॥ प्रियाय हृदयान्तोऽयं मनुर्दन्तौँविशुद्धये । चतुर्दशस्वरैर्वक्त्रं क्षालयेच्छुँद्धिहेतवे ॥ १३६ ॥ इति गन्धर्वतन्त्रे श्रीपार्वतीश्वरसंवादे कर्मयोगादिक्रमनिरूपणं नाम षष्ठः पटलः ॥ ६ ॥ १ 'द्वि' क पाठ । २ 'भाष्य' ख पाठ । ३ 'वंञ्जनमथा' ख. पाठ । ४ 'देंह' ख. पाठ । ५ 'स्सि' ख पाठ ।
सप्तमः पटलः । शंकर उवाच प्रातः स्नानं ततः कुर्यात् त्रैपुरं योजयन् क्रमम् । सुगन्धिसलिलैः शुद्धैः कुलतीर्थेऽथवा पुनः ॥ १ ॥ नद्यादौ विधिवत् स्नायात् कुलदर्भविधा(य?र)कः । रौप्यं दक्षिणतर्जन्यामनामा हेमसंयुता ॥ २ ॥ वामकनिष्ठिका हेमैः कुलदर्भोऽयमीरितः । एष एव भवेद्दर्भो न दर्भो वनसंभवः ॥ ३ ॥ अशून्यं तु करं कुर्याद्रहीन्द्वर्कप्रतिष्ठया । सर्वभूतवशी स स्यान्मुद्रया चातिशोभया ॥ ४ ॥ त्रितत्त्वेन त्रि(धा?रा)चम्य संकल्प्य पापनुत्तये । कुलपात्रे सरत्नं च सतिलं सजलं ततः ॥ ५ ॥ गृहीत्वा कुलदेवस्य प्रीतये स्नानमाचरेत् । अस्नातस्य फलं नास्ति तथातर्पयतः पितॄन् ॥ ६ ॥ इदं विष्णुर्भैरवं तु विचक्रम इतीरितम् । मृदालम्भनकृत्ये च नित्यमेवमुदीरयेत् ॥ ७ ॥ कुलचक्रं जले न्यस्य कुलमुद्रां विधाय च । एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥ ८ ॥ आवाहयामि देवि त्वां स्नानार्थमिह सुन्दरि । आवाह्याम्भसि संयोज्य सोमसूर्याग्निमण्डलम् ॥ ६ १ ' रम ' ख पाठ ।