गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 142, कुल 446 में से
संदर्भ में पढ़ेंषष्ठः पटलः । ६१ आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते । समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ ६६^१॥ समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् । इति ते कथितं देवि कामादिषट्कनाशनम् ॥ ६७ ॥ दुर्लभं विषयासक्तैः सुलभं संयमात्मनाम् । समाधिः संविदुत्पत्तिः परजीवैकतां प्रति ॥ ६८ ॥ यदि जीवः पराद्भिन्नः कार्य्यतामेति सुव्रते । [स्व?अ]चित्वं च प्रसज्येते घटवत् परमेश्वरि ॥ ६६ ॥ विनाशित्वं भयं चैव द्वि[त?ती]या[वि?दि]ति ते श्रुतिः । नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ॥ ७० ॥ एकः सन् भिद्यते भ्रान्त्या मायया न स्वरूपतः । तस्माद् द्वैतं न मे चास्ति न प्रपञ्चो न सं[स्मृ?सृ]तिः ।७१। यथाकाशो घटाकाशो महाकाश इतीरितः । तथा भ्रान्तिर्द्विधा प्रोक्ता ह्यात्मने^३ जीवेश्वरात्मना ॥ ७२ ॥ नाहं देहो नच प्राणो नेन्द्रियाणि तथैव च । न मनो नैव बुद्धिश्च नैव चित्तमहंकृतिः ॥ ७३ ॥ नाहं पृथ्वी न सलिलं नच वह्निस्तथानिलः । नचाकाशो न शब्दश्च नच स्पर्शस्तथा रसः ॥ ७४ ॥ नहि गन्धो न रूपं च न मायाहं न संसृतिः । सदा साक्षिस্বরূপत्वाद् ब्रह्म चैवास्मि केवलः ॥ ७५ ॥ सोऽहं ब्रह्म न संसारी न मत्तोऽन्यत् कदाचन । १ 'ज्यैव' ख. पाठः । २ 'स्म' क. पाठः । ३ 'प्याह्वा' क. ख पाठः ।