गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 143, कुल 446 में से
संदर्भ में पढ़ें६२. गन्धर्वतन्त्रे । इति विद्यात् स्वमात्मानं समाधिः परिकीर्तितः ॥ ७६ ॥ समाधौ स्वस्वरूपोऽसौ तुरीयस्वर एव हि । तुरीयांशः पराशक्तिर्बिन्द्वात्मा ब्रह्म केवलम् ॥ ७७ ॥ प्रज्ञात्मानं वदन्त्येके एकेऽपि ब्रह्म केवलम् । जीवमीश्वरभावेन विद्यात् सोऽहमिति ध्रुवम् ॥ ७८ ॥ यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः । समुद्रे लीयते तद्वज्जगदात्मनि लीयते ॥ ७९ ॥ यस्यैवं परमात्मा [स?स्वा]पृथग्भूतः प्रकाशितः । स याति परं भावं स्वयं साक्षात् परामृतम् ॥ ८० ॥ यदा मनसि चैतन्यं भाति सर्वात्मकं सदा । योगिनोऽव्यवधानेन तदा संपद्यते स्वयं ॥ ८१ ॥ यदा भूतानि सर्वाणि स्वात्मन्येवाभिपश्यति । सर्वभूतेषु चात्मानं ब्रह्म संपद्यते [स?त]दा ॥ ८२ ॥ यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणासौ तदा भवति केवलः ॥ ८३ ॥ यदौ जन्मजरादुःखव्याधीनामेव भेषजम् । केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा <sup>१</sup>शिवः ॥ ८४ ॥ तस्माद्विज्ञानतो मुक्तिर्नान्यथा भवकोटिभिः । मन्त्रौषधिबलैर्यद्वज्जीर्यते भक्षितं विषम् ॥ ८५ ॥ तद्वत् सर्वाणि कर्माणि जीर्यन्ति ज्ञानिनः क्षणात् । देहाभिमाने गलिते विदिते परमात्मनि ॥ ८६ ॥ १ 'प्रिये' ख पाठ । २ 'सदा' क. पाठ. ।