गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 144, कुल 446 में से
संदर्भ में पढ़ेंषष्ठः पटलः । ६३ यत्र यत्र मनो याति तत्र तत्र समाधयः । अहं ब्रह्मे नचान्योऽस्मि मुक्तोऽहमिति भावयेत् ॥८७॥ सच्चिदानन्दरूपोऽहं नित्यं मुक्तस्वभाववान् । एवं समाधियुक्तो यः समाधये स कल्पते ॥ ८८ ॥ सदाशिवोऽहमित्युक्त्वा स्वेच्छया विहरेद्यतिः । लिप्यते न स पापेन बध्यते नच कर्मणा ॥ ८६ ॥ यथाग्निविद्रुतं स्वर्णं मालिन्यं दहति क्षणात् । तथा ब्रह्मार्पितात्मासौ सर्वकर्माणि दह्यति ॥ ६०॥ आत्मस्थां देवतां त्यक्त्वा बहिर्देवान्विचि[न्व?नु]ने । करस्थं कौस्तुभं त्यक्त्वा भ्रमते काचतृष्णया ॥ ६१॥ न योगेन न यन्त्रेण न मन्त्रेण विना हि सः [?] । द्वयोरभ्यासयोगेन ब्रह्म संसिद्धिकारकम् ॥ ६२॥ तमःपरिवृते गेहे घटो दीपेन दृश्यते । एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः ॥ ६३ ॥ एतत्ते कथितं देवि ब्रह्मज्ञानमिदं महत् । विज्ञाय गुरुतो जप्त्वा संसारसागरं तरेत् ॥ ६४ ॥ यत्र यत्र मृतश्चायं गङ्गायां श्वपचालये । ब्रह्मविद् ब्रह्मभूयाय कल्पते नान्यथा प्रिये ॥ ६५ ॥ विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं प्रिये । चन्द्रसूर्याग्नितोजोभिर्जीवब्रह्मैकरूपकम् ॥ ६६ ॥ तिस्रः कोट्यस्तदर्धेनै शरीरे नाडयो मताँः । १ 'देवि' ख पाठ । २ 'हत्य' क पाठः । ३ 'स्व' क पाठ । ४ 'हृद्य' क, पाठ । ५ दै' क पाठ । ६ 'त ' क पाठ. ।