गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 145, कुल 446 में से
संदर्भ में पढ़ें६४ गन्धर्वतन्त्रे । तासु मुख्या दश प्रोक्तास्तासु तिस्रो व्यवस्थिताः ॥६७॥ प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्निरूपिणी । शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा ॥ ६८ ॥ इडा वामे स्थिता नाडी शुक्ला तु चन्द्ररूपिणी । पिङ्गलाख्या च या दक्षे पुंरूपा सूर्यविग्रहा ॥ ६९ ॥ दाडिमीकुसुमप्रख्या विषारूपा चापरा मता । मेरुमध्यस्थिता या तु मूलादाब्रह्मरन्ध्रगा ॥ १०० ॥ सर्वतेजोमयी सा तु सुषुम्ना बह्निरूपिणी । तस्या मध्ये विचित्राख्या अमृतस्त्राविणी शुभा ॥ १०१ ॥ सर्वदेवमयी सा तु योगिनां हृदयङ्गमा । विसर्गाद्विन्दुपर्यन्तं व्याप्य तिष्ठति तत्त्वतः ॥ १०२ ॥ मूलाधारे त्रिपुराख्ये इच्छाज्ञानक्रियात्मके । मध्ये स्वयंभूलिङ्गं तु कोटिसूर्यसमप्रभम् ॥ १०३ ॥ तदूर्ध्वे तत्तुरोयं तु ध्यायेद्वन्धूकसंनिभम् । तदूर्ध्वे तच्छिखाकारा कुण्डली रक्तविग्रहा ॥ १०४ ॥ सा एव हि परा सूक्ष्मा महात्रिपुरसुन्दरी । चैतन्यं सर्वभूतानां शब्दब्रह्म यदुच्यते ॥ १०५ ॥ तत्प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् । सर्वतेजोमयं तत्तु सच्चिदानन्दमव्ययम् ॥ १०६ ॥ तद्बाह्ये हेमवर्णाभं [र?व]सवर्णा ॐ चतुर्दलम् । द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥ १०७ ॥ १ 'म्णा' क. पाठ. । २ 'र्दे' क पाठ. ३ 'द्धैं' क पाठ. ।
- बादिसान्तवर्णोपेतमित्यर्थः ।