गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 135, कुल 446 में से
संदर्भ में पढ़ेंषष्ठः पटलः । —*— पार्वत्युवाच । देव्याः पूजा समाख्याता तृतीया या महेश्वर । कथय तां सुरश्रेष्ठ विस्तरेणाधुना प्रभो ॥ १ ॥ ज्ञानेन कर्मणा चेह देहशुद्धिर्द्विधा भवेत् । ज्ञानशुद्धिस्त्वया प्रोक्ता कर्मशुद्धिर्न दर्शिता ॥ २ ॥ वि(न्मू?ण्मू)त्रपिच्छलो देहः कथं देवमयो भवेत् । तन्मे वद महादेव प्रसादसुमुख प्रभो ॥ ३ ॥ ईश्वर उवाच ज्ञानेन कर्मणा वापि सिद्धिर्भवति नान्यथा । ज्ञानयोगश्च वक्तव्यः कर्मयोगं शृणु प्रिये ॥ ४ ॥ ब्राह्म्ये मुहूर्ते उत्थाय साधकः स्थिरमानसः । पद्मासनसमासीनः प्राणायामपुरःसरः ॥ ५ ॥ ब्रह्मरन्ध्रैस्थिते पद्मे सहस्रदलशोभिते । विमले पूर्णचन्द्रस्य मण्डले चिन्तयेद् गुरुम् ॥ ६ ॥ शुद्धस्फटिकसंकाशं श्वेताभरणभूषितम् । तादृक्प्रसूनमाल्यादिविभूषिततंनुं तथा ॥ ७ ॥ पद्मासनसमासीनं सर्वयोगिनिषेवितम् । वराभयकरं शान्तं द्विनेत्रं करुणामयम् ॥ ८ ॥ वामोरुगतया शक्त्या रक्तया वामपाणिना । धारयन्त्योत्पलं दक्षहस्तेनालिङ्गितं विभुम् ॥ ९ ॥ ———————————————————————————————— १ 'ता कथय' क पाठ । २ 'स्ता' क पाठ. । ३ 'न्ध्रे' ख. पाठः । ४ 'त' क. पाठः ।