गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 134, कुल 446 में से
संदर्भ में पढ़ेंपञ्चमः पटलः । ५३ ईश्वर उवाच । शृणु देवि प्रवक्ष्यामि पूजाक्रममनुत्तमम् । यस्य प्रबोधमात्रेण जीवन्मुक्तः प्रमोद्ते ॥ १२७ ॥ देव्या नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता । १परा चैवापरा देवि तृतीया च परापरा ॥ १२८ ॥ चक्रमध्ये समावाह्य पू(ज?ज्य)ते द्रव्यविस्तरैः । प्रथमा सा समाख्याता मता पुरन्दरादिभिः ॥ १२९ ॥ २मृ(दा?द्वा)सने समासीनः खगसंयमने रतः । समकायाशिरोग्रीवो नासालोकनतत्परः ॥ १३० ॥ विकल्परूपसंजल्पविमुखो भावतत्परः । महापद्मवनान्तःस्थां परमानन्दरूपिणीम् ॥ १३१ ॥ आप्यायितजगद्रूपां परमामृतवर्षिणीम् । तत्त्वज्ञानमये चक्रे परमात्मस्वरूपिणीम् ॥ १३२ ॥ अर्धमात्रा योनिरूपां बिन्दुत्रिवलयात्मिकाम् । परमानन्दपुष्पेण पूजयेदात्मरूपिणीम् ॥ १३३ ॥ इन्द्रियप्रीणनैर्द्रव्यैर्विहितं स्वात्मपूजनम् । उत्तमैयं द्वितीया सा मया निष्पाद्यते सदा ॥ १३४ ॥ परापरा समाख्याता उभयं यत्र विद्यते । देवकीसूनुना चेयं निष्पाद्यते सदा प्रिये ॥ १३५ ॥ इति श्रीपार्वतीश्वरसंवादे गन्धर्वतन्त्रे यन्त्रोद्धारावरणशक्त्यर्चनं नाम पञ्चमः पटलः ॥ ५ ॥
१ 'अपरा च' क पाठ । २ 'द्वं' क पाठ ।