भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 137, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 137

[वं?रं] वह्न्यात्मना रुद्रेण दीपं कल्पयामि रूपतन्मात्रात्मने चक्षुरिन्द्रियाय रूपं गृहाण स्वाहा., अङ्गुष्ठाभ्यां महेशानि दीपं दद्यात् समाहितः । वं अमृतात्मना विष्णुना नैवेद्यं कल्पयामि रसतन्मात्रात्मने जिह्वेन्द्रियाय रसं गृहाण स्वाहा, अङ्गुष्ठानामिकायोगं नैवेद्यं तत्प्रतिष्ठितम् ॥ १७ ॥ एवं कुलगुरुं देवि पूजयित्वा विधानतः । योनिमुद्रां प्रदर्श्याथ प्रणमेत् सिद्धिहेतवे ॥ १८ ॥ नमस्ते भगवन्नाथ शिवाय गुरुरूपिणे । विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥ १६ ॥ नवाय नवरूपाय परमात्मैकरूपिणे । सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ॥ २० ॥ स्वतन्त्राय दया[त्?क्लृ]प्तविग्रहाय शिवात्मने । परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥ १२ ॥ विवेकिनां विवेकार्थे विम[र्षा?र्शा]य विम[र्ष?र्शि]नाम् प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥ २२ ॥ पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः । सदा सच्चित्स्वरूपेण विधेहि भवदासनम् ॥ २३ ॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २४ ॥ नमोऽस्तु गुरवे तुभ्यं ब्रह्मविष्णुशिवात्मने ।

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक) · पृष्ठ 137, कुल 446 में से · BharatKosha