गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 139, कुल 446 में से
संदर्भ में पढ़ें५८ - गन्धर्वतन्त्रे । देव्युवाच विना¹ योगं न सिध्येत² कुण्डलीषट्क्रमः प्रभो । मूलपद्मे कुण्डलिनी यावन्निद्रायिता प्रभो ॥ ३६ ॥ तावन्न किंचित् सिध्येत मन्त्रयन्त्रार्चनादिकम् । जागर्ति यदि सा देवी बहुभिः पुण्यसंचयैः ॥ ३७ ॥ तदा प्रसादमायान्ति मन्त्रयन्त्रार्चनादयः । शिववद्विहरेल्लोके अष्टैश्वर्यसमन्वितः ॥ ३८ ॥ योगयोगाद् भवेन्मुक्तिर्मन्त्रसिद्धिरखण्डिता । सिद्धे मनौ परावाप्तिरिति शास्त्रार्थनिर्णयः ॥ ३६ ॥ युक्तात्मा येन विहरेत् स्वर्गे मर्त्ये रसातले । जीवन्मुक्तश्च देहान्ते परं निर्वाणमाप्नुयात् ॥ ४० ॥ तत् कार्त्स्न्येन परं योगं कथयस्व मयीश्वर³ । ईश्वर उवाच कथयामि तव स्नेहाद् योगयोग्यासि पार्वति ॥ ४१ ॥ संसारोत्तारणं मुक्तिर्योगशब्देन कथ्यते । योगो हि ललिता देवी निश्चितं विद्धि पार्वति ॥ ४२ ॥ न योगो नभसः पृष्ठे न भूमौ न रसातले । ऐक्यं जीवात्मनोश्चा⁴हुर्योगं योगविशारदाः ॥ ४३ ॥ कामक्रोधलोभमोहमदमात्सर्यसंज्ञका⁵ः । तत्समूहाः षडाख्याता योगविघ्नकरा इमे ॥ ४४ ॥ यो[गङ्गे?गाङ्गै]रेभिर्जित्त्वो तान्योगिनो योगमाप्नुयुः । १ 'द्धये' क पाठ । २ 'द्धये' क पाठ । ३ 'हे' ख पाठः । ४ 'नश्चा' क पाठ. । ५ 'क.' क पाठ. ।