गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 149, कुल 446 में से
संदर्भ में पढ़ेंसप्तमः पटलः । शंकर उवाच प्रातः स्नानं ततः कुर्यात् त्रैपुरं योजयन् क्रमम् । सुगन्धिसलिलैः शुद्धैः कुलतीर्थेऽथवा पुनः ॥ १ ॥ नद्यादौ विधिवत् स्नायात् कुलदर्भविधा(य?र)कः । रौप्यं दक्षिणतर्जन्यामनामा हेमसंयुता ॥ २ ॥ वामकनिष्ठिका हेमैः कुलदर्भोऽयमीरितः । एष एव भवेद्दर्भो न दर्भो वनसंभवः ॥ ३ ॥ अशून्यं तु करं कुर्याद्रहीन्द्वर्कप्रतिष्ठया । सर्वभूतवशी स स्यान्मुद्रया चातिशोभया ॥ ४ ॥ त्रितत्त्वेन त्रि(धा?रा)चम्य संकल्प्य पापनुत्तये । कुलपात्रे सरत्नं च सतिलं सजलं ततः ॥ ५ ॥ गृहीत्वा कुलदेवस्य प्रीतये स्नानमाचरेत् । अस्नातस्य फलं नास्ति तथातर्पयतः पितॄन् ॥ ६ ॥ इदं विष्णुर्भैरवं तु विचक्रम इतीरितम् । मृदालम्भनकृत्ये च नित्यमेवमुदीरयेत् ॥ ७ ॥ कुलचक्रं जले न्यस्य कुलमुद्रां विधाय च । एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥ ८ ॥ आवाहयामि देवि त्वां स्नानार्थमिह सुन्दरि । आवाह्याम्भसि संयोज्य सोमसूर्याग्निमण्डलम् ॥ ६ १ ' रम ' ख पाठ ।