गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 150, कुल 446 में से
संदर्भ में पढ़ेंसप्तमः पटलः । ६६ संचिन्त्य मन्त्री तन्मध्ये ध्यायेत् त्रिपुरसुन्दरीम् । गायत्र्या वै महादेव्याः सुन्दरीमाह्वयेच्छिवाम् ॥ १० ॥ त्रिवारम(जनौ?ज्जने)वारि मूलमन्त्रेण मन्त्रयेत् । अभिषिञ्चेत् ततो मूर्ध्नि² मूलमन्त्रं हृदि स्मरन् ॥ ११ ॥ त्रिभिस्तु त्रिपुराबीजैस्त्रिधा मज्जनमाचरेत् । तस्मादुत्थाय देवेशि निर्मुक्ताशेषविग्रहः ॥ १२ ॥ त्र्यक्षरीं च समुच्चार्य दुकूले परिधापयेत् । सकेशं मूषिकाक्रान्तमधौतं भग्नमम्बरम् ॥ १३ ॥ मलिनं परकीयं च पर्युषितं च वर्जयेत् । तिलकं कुलरूपं च कृत्वाचम्य विधानतः ॥ १४ ॥ ततः संध्यामुपासीत पापहानाय साधकैः³ । स्नानं च त्रिविधं प्रोक्तं संध्या च त्रिविधा स्मृता ॥१५॥ आन्तरं च भवेद्देवि बाह्यं मानसमेव च । मानसं वै भवेत् स्नानं यः सदा शुद्धमानसः ॥ १६ ॥ स्पर्शते पादुके देवि⁴ निर्विकल्पः सदैव हि । बाह्यं मन्त्रैश्च⁵ संप्रोक्तमान्तरं शृणु सांप्रतम् ॥ १७ ॥ प्रागुक्तक्रमयोगेन प्राणायामपरो बुधः । शक्तिं पराशिवेनैव संगमय्य विधानतः ॥ १८ ॥ तदुद्भवामृते शश्वन्निमज्य पुनरेव हि । स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते ॥ १६ ॥ १ ‘ङ्ख्याश्च’ क पाठ । २ ‘र्द्धि’ क पाठ । ३ ‘हा येन साधना’ क. पाठः । ४ ‘स्पर्शलेपादिकेवापि ख पाठ ५ ‘ह्ममन्त्रैव’ ख पाठ । ६ ‘मार्थ’ क पाठ. ।