गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 151, कुल 446 में से
संदर्भ में पढ़ें७० गन्धर्वतन्त्रे । बिन्दुतीर्थेऽथवा स्नात्वा पुनर्जन्म न विद्यते । आत्मानं सर्वदा सम्यग् ध्यायेद्ध्यानपरायणः ॥ २० ॥ देवताभेदतः संध्या मानसीयं परा प्रिये । शिवशक्त्योः समायोगो यस्मिन् काले प्रजायते ॥ २१ ॥ सा संध्या कुलनिष्ठानां समाधिस्थैः प्रतीयते । अपरां कथयाम्यत्र सर्वपापविनाशिनीम् ॥ २२ ॥ उपविश्य शुचौ देशे त्रितत्त्वेन त्रिराचमेत् । प्राणायामत्रयं कृत्वा त्रिभिर्बीजैस्त्रिधावि(ध?धि)म् ॥ २३ ॥ वामहस्ते जलं गृह्य गलितोदकबिन्दुभिः । सप्तधा प्रोक्षणं कुर्यान्मूर्ध्नि³ मन्त्रमनुस्मरन् ॥ २४ ॥ अवशिष्टोदकं दक्षहस्ते संगृह्य साधकः । नासामाश्लिष्य तोयेन ततस्तेनाघमर्षणम् ॥ २५ ॥ इडयाकृष्य देहान्तः क्षालितैः पापसंचयैः । कृष्णवर्णं तदुदकं दक्षनाड्या विरेचितम् ॥ २६ ॥ दक्षहस्ते तु तन्मन्त्री पापरूपं विचिन्त्य वै । पुरतो वज्रपाषाणे प्र⁵क्षिप्तेदस्त्रमन्त्रतः ॥ २७ ॥ इत्यघमर्षणं कृत्वा पुनराचमनं तथा । अभिषिञ्चेत् ततो मूर्ध्नि विधिना साधकोत्तमः ॥ २८ ॥ ओं आपो देवी रसोऽमृतं पूतं ब्रह्म पुनीमहे । जलाञ्जलित्रयं भूमौ मार्तण्डभैरवाय च ॥ २६ ॥ ऊर्ध्वबाहुस्ततो मन्त्री मार्तण्डं समुपाश्रयेत् । १ ‘धा’ क पाठ. । २ ‘धा’ ख पाठ । ३ दृष्ट्वि’ क पाठ । ४ ‘वाम’ क पाठ । ५ ‘स्तयेत’ ख पाठ । ६ ‘नि’ ख पाठ ।