गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 154, कुल 446 में से
संदर्भ में पढ़ेंसप्तमः पटलः । ७३ सुकारं चिन्तयेद्देवमिन्द्रनीलसमप्रभम् । निर्दहेत् सर्वदुःखानि ग्रहरोगोद्भवानि च ॥ ५० ॥ न्दकारं वह्निदीप्ताभं चिन्त(ना?ये)त् पुरुषर्षभ । भ्रूणहत्याकृतं पापं तत्क्षणादेव नश्यति ॥ ५१ ॥ (रि?यै)कारं विमलं ध्यायेद् ब्रह्महत्याविनाशनम् । (रि?वि)कारं चिन्तयेद्विद्वान् शुद्धस्फटिकसंनिभम् ॥५२॥ पापं नश्यति तत्क्षिप्रमगम्यागमनोद्भवम् । (सु?ह्म)कारं चिन्तयेद्योगी शुद्धस्फटिकसंनिभम् ॥ ५३ ॥ अभक्ष्यभक्षणं पापं तत्क्षणादेव नश्यति । हेकारं तारकावर्णांमिन्दु(शेष?शीर्ष)विभूषितम् ॥ ५४ ॥ योगिनां वरदं ध्यायेद् ब्रह्महत्याविनाशनम् । काकारं कृष्णवर्णं च नीलमेघसमप्रभम् ॥ ५५ ॥ ध्यात्वा पुरुषशार्दूल पापं नाशयति ध्रुवम् । मेकारं रक्तवर्णं च कमलासनसंस्थितम् ॥ ५६ ॥ गोहत्यादिकृतं पापं नाशयत्येव तत्क्षणात् । श्वकारं परमं ध्यायेत् तप्तकाञ्चनसंनिभम् ॥ ५७ ॥ कमलासनमासीनं मन्त्री हत्याविमोचनम् । (रि?यै)कारं शुक्लवर्णं तु जातीपुष्पसमप्रभम् ॥ ५८ ॥ गुरुहत्याकृतं पापं ध्यात्वा दहति तत्क्षणात् । धीकारं चिन्तयेच्छुक्लं कुन्दपुष्पसमप्रभम् ॥ ५६ ॥ पितृमातृवधात् पापान्मुच्यते नात्र संशयः । १ 'य' क पाठ ।