गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 155, कुल 446 में से
संदर्भ में पढ़ें७४ गन्धर्वतन्त्रे । मकारं पद्मरागाभं चिन्तयेद् दीप्ततेजसम् ॥ ६० ॥ पूर्वजन्मार्जितं पापं तत्क्षणादेव नश्यति । हिकारं शङ्खवर्णं तु पूर्णचन्द्रसमप्रभम् ॥ ६१ ॥ अशेषपापदहनं ध्यायेन्नित्यमिहाच्युत (?) । तत्कारं पाण्डुरं ध्यायेत् पद्मस्योपरि संस्थितम् ॥ ६२ ॥ प्रतिग्रहकृतं पापं स्मरणादेव नश्यति । नःकारं रक्तवर्णं तु इन्द्रगोपसमप्रभम् ॥ ६३ ॥ ध्यात्वा प्राणिवधं पापं निर्दहेज्जगदीश्वर । क्लिन्कारं रक्तवर्णं तु स्मरेद्द्वज्रसमप्रभम् ॥ ६४ ॥ निर्दहेत् सर्वपापानि नान्यैः पापैः प्रलिप्यते । नेकारं तु मुखं पूर्वमुद्यदर्कसमप्रभम् ॥ ६५ ॥ सकृद्ध्यात्वा सुरश्रेष्ठ स गच्छेदू ब्रह्मणः पदम् । नीलोत्पलदलश्यामं प्रकारं दक्षिणाननम् ॥ ६६ ॥ सकृद् ध्यात्वा सुरश्रेष्ठ स गच्छेद्वैष्णवं पदम् । सौम्यं गोरोचनापीतं चोकारं चोत्तराननम् ॥ ६७ ॥ सकृद् ध्यात्वा सुरश्रेष्ठ स गच्छेद्रुद्रतां पुनः । शरच्चन्द्रनिभं शान्तं दकारं पश्चिमाननम् ॥ ६८ ॥ सकृद् ध्यात्वा सुरश्रेष्ठ स गच्छेदैश्र्वरं पदम् । यात्कारं च शिरः प्रोक्तमूर्ध्वाननमितीरितम् ॥ ६९ ॥ सकृद् ध्यात्वा सुरश्रेष्ठ सदाशिवपुरं व्रजेत् । अक्षराणां तु सर्वेषां वक्ष्यन्ते देवताः क्रमात् ॥ ७० ॥ १ 'र्द्धा' क पाठ ।