भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 161, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 161

८० गन्धर्वतन्त्रे । एवमेषा महादेवि यागभूमिः समीरिता । पूजावेद्या बहिः स्थित्वा चतुर्हस्तान्तरे धिया ॥ १० ॥ गृहे चेद् द्वारदेशस्थ आचम्य मनसा गुरून् । प्रणामेदिष्टदेवीं च दिक्पालानपि चेतसा ॥ ११ ॥ इन्द्रमग्निं यमं वन्दे निर्ऋतिं वरुणं तथा । पवनं धनदं चेशं प्रजापतिमनन्तकम् ॥ १२ ॥ गणेशं चैव क्षेत्रेशं वन्दे द्वारश्रियं तथा । गणनाथं च वटुकं दुर्गां क्षेत्रं रतिं स्मरम् ॥ १३ ॥ प्रीतिं वसन्तकं चैव शङ्खपद्मनिधी तथा । सरस्वतीं महालक्ष्मीं मायां दुर्गां नमाम्यहम् ॥ १४ ॥ भद्रकालीं च स्वस्तिं च स्वाहां शुभंकरीं तथा । गौरीं च लोकधात्रीं च वागीश्वरीं नमाम्यहम् ॥ १५ ॥ ब्रह्माणं वास्तुपुरुषं प्रणामामि यथाक्रमम् । पुष्पाञ्जलिमथैतेभ्यो भक्त्या परमया दिशेत् ॥ १६ ॥ मण्डलं वामतः कृत्वा चतुरस्रं महेश्वरि । आधारं पूजयेत् तत्र पात्रं चान्नोदकान्वितम् ॥ १७ ॥ संस्कृत्य परमेशानि सर्वभूतबलिं हरेत् । तारं च भुवनेशानीं सर्वविघ्नपदं ततः ॥ १८ ॥ (हृ?कृ)दन्ते सर्वभूतेभ्यो हुंकारं वह्निवल्लभां । समुच्चरन् बलिं दद्यान्मुद्रया तत्त्वसंज्ञया ॥ १९ ॥ अङ्गुष्ठानामिकायोगं तत्त्वमुद्रेयमीरिता । १ 'श्रि' क पाठ । २ जलेन चतुरस्रकम् ख पाठ ।