भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 162, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 162

अष्टमः पटलः । ८१ बालान्ते चास्त्रमालिरुय १ ङेन्तं फट्कारसंयुतम् ॥ २० ॥ अस्त्रमन्त्रः समाख्यातः सर्वविघ्नौघनाशकः । अनेनैवाक्षतान् सम्यक् संमन्त्र्य सप्तधा ततः ॥ २१ ॥ अपसर्पन्तु ते भूता भूमौ ये चान्तरिक्षगाः । दिव्यलोकगता ये च ते नश्यन्तु २ शिवाज्ञया ॥ २२ ॥ अनेनैवाक्षतांस्तत्र विकिरेद्यज्ञमण्डपे । ऐंक्लींसौः इति मन्त्रेण पूजा(देव्या?वेद्यां) महेश्वरि ॥२३॥ अङ्गं संकोचयन् वामं प्रविशेद्दैक्षिणाङ्घ्रिणा । यागमन्दिरगांस्तत्र विघ्नानुत्सारयेत् ततः ॥ २४ ॥ पाष्णिघातकरस्फोटसमुदञ्चितवक्त्रकैः । तालत्रयमिदं कृत्वा विघ्नान्सर्वानपाहरेत् ॥ २५ ॥ ततः पुनर्भुंफडिति पार्श्वमूर्ध्वमधस्तथा । आत्मनः क्रोधदृष्ट्याथ निरीक्ष्य सुमना भवेत् ॥ २६ ॥ वीक्षणं (सर्व?वर्म)बीजेन यज्ञभूमेः समीरितम् । त(तू?त्तु)र्यो बिन्दुसंयुक्तः कलानादसमन्वितः ॥ २७ ॥ ५वर्मबीजमिदं प्रोक्तं धर्मकामार्थसाधनम् । प्रोक्षणं चास्त्रमन्त्रेण यागभूमेः समाचरेत् ॥ २८ ॥ अशुद्धपत्तिसंयोगपत्तिविष्टावसेचनम् । मूषिकामण्डूकस्पर्शक्रमिकीटा ६दिसंगमः ॥ २९ ॥ अज्ञातदूषणं स्थानं मार्जनादौ च यद्भवेत् ७ । एवमादीनि नश्यन्ति लोकनात् स्पर्शनात् प्रिये ॥ ३० ॥ १ ‘री’ क. पाठ. । २ ‘न्ति’ ख पाठः । ३ ‘द’ क पाठ । ४ ‘क’ क पाठ. । ५ ‘हूं’ क पाठ. । ६ ‘घ’ ख पाठ । ७ ‘तद्दूषित’ ख पाठ. ।

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक) · पृष्ठ 162, कुल 446 में से · BharatKosha